संस्कृत-शब्दकोशः

महासुख महासूक्ष्मा

महासुगन्धा

वाचस्पत्यम्

महासुगन्धा ||‍ स्त्री सुष्ठु गन्धोऽहिहिंसा वाऽस्याः कर्म० । १ गन्धनाकुल्याम् राजनि० २ अतिसुगन्धयुक्ते त्रि० ।


शब्दकल्पद्रुमः

महासुगन्धा || स्त्री (महान् सुगन्धोऽस्याः ।)
गन्धनाकुली । इति राजनिर्घण्टः ॥ (यथा, सुश्रुते । उत्तरतन्त्रे २६ अध्याये । “महासुगन्धामथवा पालिन्दीञ्चाम्लपेषिताम् । शीतांश्चात्र परीषेकान् प्रदेहानत्र योजयेत् ॥”)
अतिसुगन्धयुक्ते त्रि ॥



Correction: