वाचस्पत्यम्
महासेन || पु० महती सेनाऽस्य । १ कार्त्तिकेये अमरः । २ वृ- हत्सेनाधिपतौ च ।
शब्दकल्पद्रुमः
महासेनः || पुं, (महती सेना यस्य ।)
कार्त्तिकेयः । इत्यमरः । १ । १ । ४१ ॥ (यथा अनर्घराघवे । ४ । ३२ । “महासेनो यस्य प्रमदयमदंष्ट्रासहचरैः शरैर्मुक्तो जीवन्द्विरिव शरजन्मा समभवत् । इमाञ्च क्षत्राणां भुजवनमहादुर्गविषमा मयं वीरो वारानजयदुपविंशान् वसुमतीम् ॥” महती सेना अनुचरोऽस्य ।)
शिवः । इति महाभारते तस्य सहस्रनामस्तोत्रम् ॥ महा- सेनापतिः । इति मेदिनी । ने, २०१ ॥ (यथा महाभारते । ५ । १९१ । ११ । “स च राजा दशार्नेषु महानासीत् सुदुर्जयः । हिरण्यवर्मा दुद्धर्षो महासेनो महामनाः ॥”)
वृत्तार्हत्पितृविशेषः । इति हेमचन्द्रः । राज- विशेषः । यथा, कथासरित्सागरे । ११ । ३४ ॥ “जयसेनस्य तस्याथ पुत्रोऽप्रतिमदोर्बलः । समुत्पन्नो महासेननामा नृपतिकुञ्जरः ॥”)