संस्कृत-शब्दकोशः

महिषध्वज महिषवल्ली

महिषमर्दिनी

वाचस्पत्यम्

महिषमर्दिनी ||‍ स्त्री महिषं महिषासुरं मृद्नाति मृद- णिनि ङीप् ६ त० । दुर्गाभेदे ।


शब्दकल्पद्रुमः

महिषमर्द्दिनी || स्त्री (महिषं महिषाख्यमसुरं मृद्नातीति । मृद् + णिनिः । ङीप् ।)
दुर्गा । इति शब्दरत्नावली ॥ अस्या मन्त्रा यथा, शार- दायाम् । “भान्तं वियत् सनयनं श्वेतो मर्द्दिनि ठद्वयम् । अष्टाक्षरी समाख्याता विद्या महिषमर्द्दिनी ॥” नारायणीतन्त्रे । “विषं हि मज्जा कालोऽग्निरद्रिरिस्थो निठ- द्बयम् ॥” विषं मकारः । हि स्वरूपम् । मज्जा षकारः । कालो मकारः । अग्नी रेफः । अद्रिर्द्दकारः । इस्थ इति वचनादिकारयुक्तो दकारः । अयं मन्त्रस्तारादिर्मायादिः कामादिर्वाग्भवादि- र्व्वधूबीजादिः कवचादिश्च नवाक्षरः । तथा च विश्वसारे । “प्रणवाद्यां जपेद्बिद्यां मायाद्यां वा जपेत् सुधीः । बधूबीजादिकां वापि कवचाद्यां जपेत्तथा ॥ सर्व्वकालेषु सर्व्वत्र कामाद्यां प्रजपेत् सुधीः । वाग्भवाद्यां जपेत्तान्तु देवीं वाक्यविशुद्धये ॥ अस्या ध्यानम् । गारुडोपलसन्निभां मणिमय- कुण्डलमण्डितां नौमि भालविलोचनां महिषो- त्तमाङ्गनिषेदुषीम् । शङ्खचक्रकृपाणखेटकबाण- कार्मुकशूलकान् तर्ज्जनीमपि बिभ्रतीं निज- बाहुभिः शशिशेखराम् ॥ इति तन्त्रसारः ॥



Correction: