वाचस्पत्यम्
महिषासुर || पु० रम्भासुरेण महिष्यामुत्पादिते असुरभेदे ।
शब्दकल्पद्रुमः
महिषासुरः || पुं, (महिष एव महिषाख्यो वा असुरः ।)
रम्भासुरपुत्त्रः । तस्य उत्पत्तिर्यथा, — श्रीऔर्व्व उवाच “आराधिता महादेवो रम्भेण सुरवैरिणा । चिरेण स च सुप्रीतस्तपसा तस्य शङ्करः ॥ अथ तुष्टो महादेवः प्रत्यक्षं रम्भमुक्तवान् । प्रीतोऽस्मि ते वरं रम्भ ! वरयस्व यथेप्सितम् ॥ एवमुक्तः प्रत्युवाच रम्भस्तं चन्द्रशेखरम् ॥ अपुत्त्रोऽहं महादेव ! यदि ते मय्यनुग्रहः । मम जन्मत्रये पुत्त्रो भवान् भवतु शङ्कर ! ॥ अवध्यः सर्व्वभूतानां जेता च त्रिदिवौकसाम् । चिरायुश्च यशस्वी च लक्ष्मीवान् सत्यसङ्गरः ॥ एवमुक्तस्तु दैत्येन प्रत्युवाच वृषध्वजः । भवत्वेतद्वाञ्छितन्ते भविष्यामि सुतस्तव ॥ इत्युक्त्वा स महादेवस्तत्रैवान्तरधीयत । रम्भोऽपि यातः स्वस्थानं हर्षोत्फुल्लविलो- चनः ॥ पथि गच्छन् स रम्भोऽथ ददृशे महिषीं शुभाम् । त्रिहायणीं चित्रवर्णां सुन्दरीं ऋतुशालिनीम् ॥ स तां दृष्ट्वाथ महिषीं रम्भः कामेन मोहितः । दोर्भ्यां गृहीत्वा च तदा चकार सुरतोत्सवम् ॥ तयोः प्रवृत्ते सुरते सा तदा तस्य तेजसा । दधार महिषी गर्भं तदाभून्महिषासुरः ॥ तस्यां स्वाङ्गेषु गिरिशस्तत्पुत्त्रत्वमवाप्तवान् । ववृधे स तदा वाग्भिः शुक्लपक्षे समुद्रवत् ॥” तस्य योषिद्वध्यत्वं यथा, —
“तन्तु कात्यायनमुनिः शप्तवान् महिषासुरम् । दुर्णयं वीक्ष्य शिष्यार्थे शिष्यानुग्रहकारकः ॥ कात्यायनेन शप्तं तं विज्ञाय महिषासुरम् । प्राह प्रणयपूर्ब्बन्तु चण्डिकां चन्द्रशेखरः ॥” ईश्वर उवाच । “देवि ! कात्यायनेनापि शप्तोऽयं महिषा- सुरः । योषिद्विनाशकर्त्त्रीति भवितेति जगन्मयि ! । निःसंशयमृषेर्व्वाक्यं भविष्यति न संशयः ॥ मदीयो माहिषः कायस्त्वया देवि ! जगन्मयि ! । हन्तव्यः सततं योगयुक्तः पूर्ब्बे परेऽपि च ॥ हरिर्हरिस्वरूपेण त्वां वोढुमक्षमोऽधुना । ममायं माहिषः कायस्तव वोढा भविष्यति ॥ इति पूर्ब्बं महादेवो देवों प्रार्थितवान् पुरा ॥ तेन देवी महादेवं जग्राह महिषासुरम् ॥ त्रिषु जन्मसु पुत्त्रोऽभूत् रम्भस्य भगवान् शिवः । सृष्टित्रयं स रम्भोऽपि रम्भ एव व्यजायत ॥ असुरस्तादृशस्तेपे तपः परमदारुणम् । तथैवाराधितः शम्भुः पुत्त्रार्थे प्रददौ वरम् ॥ तथैव महिषीं भेजे प्रथमं सुरताय सः । तस्यां तथाभवद्वीरो दानवो महिषासुरः । तथैव शेपे भगवान् मुनिः कात्यायनस्तु तम् ॥ इति प्रवृत्ते पूर्ब्बस्मिन् परस्मिन् स तु जन्मनि । महिषः पूजयित्वाथ देवीं वरमयाचत ॥ तृतीये जन्मनि वरं प्राप्य कल्पानशेषतः । नेह मे जन्म भवितेत्येवं वरमयाचत ॥ तेन देवीपदतले तिष्ठत्येषोऽसुरोऽधुना । नोत्पत्तिरपि तस्यास्ति संवर्त्तांस्तान् बहून् नृप ! ॥ एवं देवीप्रसादेन महादेवाङ्गसम्भवः । परामवाप सततं प्रतिपत्तिं महासुरः ॥ इति ते कथितं राजन् ! यथा स महिषा- सुरः । देवीपादतलं प्राप्य यथा सोऽद्यापि मोदते ॥” इति कालिकापुराणे ५९ अध्यायः ॥ * ॥
अपि च । नारद उवाच । “कश्चासौ महिषो नाम रक्तबीजादयश्च के । कासौ कात्यायनी नाम या जघ्ने महिषा- सुरम् । एतान् विस्तरतस्तात ! यथावद्वक्तुमर्हसि ॥” पुलस्त्य उवाच । “श्रूयतां संप्रवक्ष्यामि कथां पापप्रणाशिनीम् । सर्व्वदा वरदा दुर्गा सेयं कात्यायनी मुने ! ॥ सुरासुरवरौ रौद्रौ जगत्क्षोभकरावुभौ । रम्भश्चैव करम्भश्च द्वावास्तां सुमहाबलौ ॥ तावपुत्त्रौ च देवर्षे ! पुत्त्रार्थं तेपतुस्तपः । बहुवर्षगणान् दैत्यौ स्थितौ पञ्चनदे जले ॥ तत्रैको जलमध्यस्थो द्बितीयोऽप्यग्निपञ्चमी । करम्भश्चैव रम्भश्च यक्षं मालवटं प्रति ॥ एकं निमग्नं सलिले ग्राहरूपेण वासवः । चरणाभ्यां समादाय निजघान यथेच्छया ॥ ततो भ्रातरि नष्टे च रम्भः कोपपरिप्लुतः । वह्रौ स्वशीर्षं संछिद्य होतुमैच्छन्महाबलः ॥ ततः प्रगृह्य केशेषु खड्गञ्च रविसंप्रभम् । छेत्तुकामो निजं शीर्षं वह्निना प्रतिषेधितः ॥ उत्तिष्ठासुर ! मा मैवं नाशयात्मानमात्मना । दुस्तरा परवध्यापि स्ववध्याप्यतिदुस्तरा ॥ यच्च प्रार्थयसे वीर ! तद्ददामि यथेप्सितम् । मा म्रियस्व मृतस्येह नष्टा भवति वै कथा ॥ ततोऽब्रवीद्वचो रम्भो वरं चेन्मे ददासि हि । त्रैलोक्यविजयी पुत्त्रः स्यान्मे त्वत्तेजसाधिकः ॥ अजेयो दैवतैः सर्व्वैः पुंभिर्द्दैत्यैश्च पावक ! । महाबलो वायुरिव कामरूपी कृतास्त्रवित् ॥ तं प्रोवाच कविर्ब्रह्मन् ! वाढमेवं भविष्यति । यस्यां चित्तं समालम्बि करिष्यसि ततोऽसुर ! ॥ इत्येवमुक्तो देवेन वह्निना दानवो ययौ । यष्टुं मुनिवटं याक्षं यक्षैश्च परिवारितम् ॥ तेषां पद्मनिधिस्तत्र वसते नान्यचेतनः । गजाश्च महिषाश्चाश्वा गावोऽजाविपरिप्लुताः ॥ तान् दृष्ट्वैव तदा चक्रे भावं दानवपार्थिवः । महिष्यां रूपयुक्तायां त्रिहायण्यां तपोधन ! ॥ समागच्छच्च दैत्येन्द्रं कामयन्ती तरस्विनी । स चाभिगमनं चक्रे भवितव्यप्रचोदितः ॥ तस्यां समभवद्गर्भस्तां प्रगृह्याथ दानवः । पातालं प्रविवेशाथ ततः स्वभवनं गतः ॥ दृष्टश्च दानवैः सर्व्वैः परित्यक्तश्च बन्धुभिः । अकार्य्यं कारयत्येवं भूयो मालवटं गतः ॥ सापि तेनैव पतिना महिषी चारुदर्शना । समं जगाम तत्पुण्यं यक्षमण्डलमुत्तमम् ॥ ततस्तु वसतस्तस्य श्यामा सा सुषुवे मुने ! । अजीजनत् सुतं शुभ्रं महिषं कामरूपिणम् ॥ इति वामनपुराणे १७ अध्यायः ॥ * ॥
अन्यच्च । धरण्युवाच । “या सा माया शरीरात्तु ब्रह्मणोऽव्यक्तजन्मनः । गायत्त्र्यष्टभुजा भूत्वा चैत्रासुरमयोधयत् ॥ सैव नन्दाभवद्देवी देवकार्य्यचिकीर्षया । महिषाख्यासुरवधं कुर्व्वती ब्रह्मणेरिता ॥ वैष्णव्या च हतो देव ! कथमेतद्धि संशयः ॥ वराह उवाच । इयं जगद्धिता देवी गङ्गा शङ्करसुप्रिया । क्वचित् किञ्चित् भवेद्वृत्तं सपदं वेद सर्व्ववित् । स्वायम्भुवे हतो दैत्यो वैष्णव्या मन्दरे गिरौ ॥ महिषाख्योऽपरः पश्चात् स वै चैत्रासुरः पुनः । नन्दया निहतो बिन्ध्ये महाबलपराक्रमः ॥ अथवा ज्ञानशक्तिः सा महिषोऽज्ञान- मूर्त्तिमान् । अज्ञानं ज्ञानसाध्यन्तु भवतीति न संशयः ॥ मूर्त्तिपक्षे चेतिहासममूर्त्ते चैकवद्धृदि । ख्यायते वेदवाक्यैस्तु इह सा वेदवादिभिः ॥” इति वराहपुराणम् ॥