संस्कृत-शब्दकोशः

महीक्षित् महीध्र

महीज

वाचस्पत्यम्

महीज ||‍ न० मह्या जायते जन—ड । १ आर्द्रके राजनि० । २ म- ङ्गलग्रहे ३ नरकासुरे च पु० ४ सीतायां स्त्री ।


शब्दकल्पद्रुमः

महीजं || क्ली (मह्यां जायते इति । जन + डः ।)
आर्द्रकम् । इति राजनिर्घण्टः ॥ भूमि- जाते । त्रि ॥ (यथा, महाभारते । ६ । ८७ । ३-४ । “आरट्टानां महीजानां सिन्धुजानाञ्च सर्वशः । वानायुजानां शुभ्राणां तथा पर्व्वतवासिनान् । वाजिनांबहुभिः संख्ये समन्तात् पर्य्यवारयन् ॥”)


शब्दकल्पद्रुमः

महीजः || पुं, (मह्यां जातः । जन + डः ।)
मङ्गल- ग्रहः । यथा, समयप्रदीपे । “रवौ रसाब्धी सितगौ हयाब्धी द्वयं महीजे विधुजे शराष्टौ । गुरौ शराष्टौ भृगुजे तृतीयं शनौ रसाद्यन्तमिति क्षपायाम् ॥”



Correction: