वाचस्पत्यम्
महीभृत् || पु० सहीं बिभर्त्ति धारयति पालयति वा भृक्विप् । १ पर्वते २ भूमिपाले च ।
शब्दकल्पद्रुमः
महीभृत् || पुं, (महीं बिभर्त्ति धरतीति । भृ + क्विप् । “ह्रस्वस्य पिति कृति तुक् ।” ६ । १ । ७१ । इति तुगागमश्च ।)
पर्व्वतः । यथा, कुमार- सम्भवे । १ । २७ । “महीभृतः पुत्त्रवतोऽपि दृष्टि- स्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमालाः सविशेषसङ्गाः ॥” (महीं बिभर्त्ति पालयतीति । भृ + क्विप् ।)
राजा । यथा, मार्कण्डेयपुराणे । ८१ । १३ । “ये ममानुगता नित्यं प्रसादधनभोजनैः । अनुवृत्तिं ध्रुवं तेऽद्य कुर्व्वन्त्यन्यमहीभृताम् ॥”