संस्कृत-शब्दकोशः

महेच्छ महेन्द्रकदली

महेन्द्र

वाचस्पत्यम्

महेन्द्र ||‍ पु० महान् इन्द्रः इन्द्रस्यापि नियन्तृत्वात् । १ परमे- श्वरे २ महैश्चर्य्यवति इन्द्रे ३ जम्बुद्वीपस्थपर्वतभेदे च मेदि०


शब्दकल्पद्रुमः

महेन्द्रः || पुं, (महांश्चासाविन्द्रश्च ऐश्वर्य्यवानि- त्यर्थः ।)
विष्णुः । इति महाभारते तस्य सहस्र- नामस्तोत्रम् ॥ शक्रः । (यथा, भागवते । ६ । १३ । ६ । “ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रवीत् ॥”)
जम्बुद्वीपस्य पर्व्वतविशेषः । इति मेदिनी । रे, २०० ॥ (स च सप्तकुलाचलानामन्यतमः । यथा, मार्कण्डेये । ५७ । १० । “महेन्द्रो मलयः सह्यः सुक्तिमानृक्षपर्व्वतः । बिन्ध्यश्च पारिपात्रश्च सप्तैवात्र कुलाचलाः ॥”)



Correction: