वाचस्पत्यम्
महोत्साह || त्रि० महान् उत्साहो यस्य । अत्यन्तोद्यमयुक्ते महोद्यमोऽप्यत्र ।
शब्दकल्पद्रुमः
महोत्साहः || त्रि (महान् उत्साहो यस्य ।)
अति- शयोत्साहयुक्तः । (यथा, महाभारते । ५ । ५१ । १ । “सर्व्व एते महोत्साहा ये त्वया परिकीर्त्तिताः । एकतस्त्वेव ते सर्व्वे समेता भीम एकतः ॥”)
तत्पर्य्यायः । महोद्यमः २ । इत्यमरः । ३ । १ । ३ ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ३१ । “अतीन्द्रियो महामायो महोत्साहोमहाबलः ॥”)
शब्दकल्पद्रुमः
महोत्साहः || पुं, (महान् उत्साहो यस्य ।)
राज्याङ्गप्राप्तराजपुरुषः । यथा, —
“सम्पन्नस्तु प्रकृतिभिर्महोत्साहः कृतश्रमः ॥” इति शब्दमाला ॥ अतिशयोद्यमश्च ॥