संस्कृत-शब्दकोशः

महोदया महोद्यम

महोदरी

वाचस्पत्यम्

महोदरी ||‍ स्त्री० महदुदरं यस्याः । १ शतमूल्याम् भावप्र० । २ वृहदुदरयुक्ते त्रि० ।


शब्दकल्पद्रुमः

महोदरी || स्त्री महाशतावरी । इति भाव- प्रकाशः ॥ (महत् उदरमस्य ।)
बृहदुदरयुक्ते, त्रि ॥ (महच्च तदुदरञ्च । बृहदुदरे, क्ली । यथा, श्रीभागवते । ९ । ७ । १७ । “पितरं वरुणग्रस्तं श्रुत्वा जातमहोदरम् । रोहितो ग्राममेयाय तमिन्द्रः प्रत्यवेधत ॥” पुं, नागविशेषः । यथा, महाभारते । १ । ३५ । १६ । “कर्कराकर्करौ नागौ कुण्डोदरमहोदरौ ॥” दानवविशेषः । यथा, तत्रैव । १ । ६५ । २५ । “एकपादेकचक्रश्च विरूपाक्षमहोदरौ ॥” धृतराष्ट्रस्य पुत्रविशेषः । यथा, तत्रैव । १ । ६७ । ९७ । “सेनापतिः सुसेनश्च कुण्डोदरमहोदरौ ।”)



Correction: