वाचस्पत्यम्
महोल्का || स्त्री कर्म० । वृहदुल्कायाम् ।
शब्दकल्पद्रुमः
महोल्का || स्त्री (महती चासावुल्का च ।)
उल्काविशेषः । यथा, —
“विदुत्स्तनितनिर्घातमहोल्कानाञ्च संप्लवे । आकालिकमनध्यायमेतेषु मनुरब्रवीत् ॥ महोल्कानाञ्च संप्लवे इतस्ततोऽनेकमहोल्कानां सन्निपाते । उल्कालक्षणमाह बृहद्वशिष्ठः । “बृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखो- ज्ज्वला । पौरुषी च प्रमाणेन उल्का नानाविधा स्मृता ॥” इति तिथ्यादितत्त्वम् ॥