वाचस्पत्यम्
माञ्जिष्ठ || न० मञ्जिष्ठया रक्तमणे । १ रक्तवर्णे २ तद्वति त्रि०
शब्दकल्पद्रुमः
माञ्जिष्ठं || क्ली (मञ्जिष्ठया रक्तम् । “तेन रक्तं रागात् ।” ४ । २ । ४ । इत्यण् ।)
लोहितवर्णः । (यथा, बृहत्संहितायाम् । ३० । १२ । “कल्माषबभ्रुकपिलाविचित्रमाञ्जिष्ठहरितशव- लाभाः ।” तद्वति, त्रि । इति हेमचन्द्रः ॥