संस्कृत-शब्दकोशः

माटाम्रक माड

माठर

वाचस्पत्यम्

माठर ||‍ पु० मन—अरन् ठान्तादेशः ततः स्वार्थे अण् सूर्य्यस्य परिपार्श्वं मठति मठ—अरण् वा । सूर्य्यस्य १ पारिपा र्श्विकेगणभेदे अमरः । २ व्यासे मेदि० । ३ विप्रे हेमच० । ४ शौण्डिके सि० कौ० ।


शब्दकल्पद्रुमः

माठरः || पुं, सूर्य्यपार्श्वपरिवर्त्तिविशेषः । यथा, —
“माठरः पिङ्गलो दण्डश्चण्डांशोः पारि- पार्श्विकाः ।” इत्यमरः । १ । ३ । ३१ ॥ मठति निवसति सूर्य्यसमीपे माठरः मठ वास- मर्द्दयोः नाम्नीति अरण् मठरस्यापत्यं माठर इति स्वामी ॥ पिङ्गलवर्णत्वात् पिङ्गलः । दण्ड- कारित्वाद्दण्डः । इति स्वामी ॥ परितः पार्श्वे वर्त्तन्ते पारिपार्श्विकाः ढघे कादिति ष्णिकः । सूर्य्यः कारुणिकत्वाद्दैत्यानां वरं दास्यतीति धिया इन्द्रादयोऽष्टादशनामान्तरेण प्रच्छन्ना अस्य पार्श्वेषु स्थिताः । अत्र प्राधान्यात्त्रयो ऽभिहिताः । अत्र माठरनामा यमः । पिङ्गल- नामा वह्रिः । दण्डनामा शक्रः । तथाचागमः । “तत्र शक्रो वामपार्श्वे दण्डाख्यो दण्डनायकः । वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो नामतश्च सः ॥ यमोऽपि दक्षिणे पार्श्वे ख्यातो माठरसंज्ञकः ।” एवमपरे हरगुहादयः कुल्माषपक्ष्यादिसंज्ञकाः पूर्ब्बद्वारादिषु स्थिताः । इति तट्टीकायां भरतः ॥ व्यासः । इति मेदिनी । रे, २०३ ॥ विप्रः । इति हेमचन्द्रः । ३ । ५१० ॥ शौण्डिकः । इति सिद्धान्तकौमुद्यामुणादिवृत्तिः ॥



Correction: