शब्दकल्पद्रुमः
मातुलानी || स्त्री (मा निषेधे तुलां नयति प्राप्नो- तीति । नी + क्विप् । ङीष् ।)
कलायः । भङ्गा । इति मेदिनी । ने, २०३ ॥ (यथास्या पर्य्यायः । भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “भङ्गा गञ्जा मातुलानी मादीनि विजया जया ॥”)
शणः । इति हेमचन्द्रः । ४ । २४५ ॥ प्रियङ्गु- वृक्षः । इति शब्दचन्द्रिका ॥
शब्दकल्पद्रुमः
मातुलानी || स्त्री (मातुल + टाप् । मातुलस्य स्त्री । “इन्द्रवरुणेति । ४ । १ । ४९ । ङीष् आनुक् च ।)
मातुलपत्नी । इत्यमर- भरतौ । २ । ६ । ३० । मामी इति भाषा ॥ तन्मरणे पक्षिण्यशौचम् । यथा, —
“श्वशुरयोर्भगिन्याञ्च मातुलान्याञ्च मातुले । पित्रोः स्वसरि तद्वच्च पक्षिणीं क्षपयेन्नि- शाम् ॥” इति शुद्धितत्त्वम् ॥