वाचस्पत्यम्
मातृबन्धु || पु० ६ त० । “मातुः पितुःष्वसुः पुत्रा मातुर्मातुः- ष्वसुः सुताः । मातुर्मातुलपुत्राश्च विज्ञेया मातृबन्धवः” इत्युक्तेषु मातुः पितृष्वस्रीयादिषु । मातृबान्धवोऽप्यत्र ।
शब्दकल्पद्रुमः
मातृबन्धुः || पुं, (मातुर्बन्धुः ।)
मातृबान्धवः । यथा । बन्धवस्त्रिविधाः । आत्मबन्धवः पितृ- बन्धवो मातृबन्धवश्चेति । यथोक्तम् । “आत्मपितृष्वसुः पुत्त्रा आत्ममातृष्वसुः सुताः । आत्ममातुलपुत्त्राश्च घिज्ञेया ह्यात्मबान्धवाः ॥ पितुः पितृष्वमुः पुत्त्राः पितुर्मातृष्वसुः सुताः । पितुर्मातुलपुत्त्राञ्च विज्ञेयाः पितृबान्धवाः ॥ मातुः पितृस्वसुः पुत्त्रा मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्त्राश्च विज्ञेया मातृबान्धवाः ॥” इति मिताक्षरा ॥