वाचस्पत्यम्
मानसव्रत || न० मनसा कृतं मानसं कर्म० । “अहिंसासत्य- मस्तेयं ब्रह्मचर्य्यमलुब्धता । एतानि मानसानि स्युर्व्र- तानि” इत्युक्तेषु अहिंसादिषु ।
शब्दकल्पद्रुमः
मानसव्रतं || क्ली (मानसकृतं व्रतम् । शाकपार्थिव- वत् समासः ।)
अहिंसादि । यथा, —
“अहिंसा सत्यमस्तेयं ब्रह्मचर्य्यमकल्कता । एतानि मानसान्याहुर्व्रतानि तु घराधरे ॥” इति वराहपुराणम् ॥