संस्कृत-शब्दकोशः

मार्कण्डीय मार्कर

मार्कण्डेय

वाचस्पत्यम्

मार्कण्डेय ||‍ पु० मृकण्डोरपत्यं शुभ्रा० ढक् पृषो० । १ मृ- कण्डुमुनिपुत्रभेदे तेन प्रोक्तम् अण् । व्यासप्रणीते पक्षि मार्कण्डेयसंवादरूपे २ महापुराणभेदे न० । तत्प्रतिपाद्य- विषयाश्च नारदपु० पूर्वभागे ९७ अ० उक्ता यथा । “यत्राधिकृत्य शकुनीन् सर्वधर्मनिरूपणम् । मार्कण्डेयेन मुनिना जैमिनेः प्राक् समीरितम् । पक्षिणां धर्मसंज्ञानां ततो जन्मनिरूपणम् । पूर्वजन्मकथा चैषां विक्रिया च दिवस्पतेः । तीर्थयात्रा बलस्यातो द्रौपदेयकथानकम् । हरिश्चन्द्रकथा पुण्या युद्धमाजीवकाभिधम् । पितापुत्र- समाख्यानं दत्तात्रेयकथा ततः । हैहयस्याथ चरितं महाख्यानसमाचितम् । मदालसाकथा प्रोक्ता ह्य- लर्काचरिताचिता । सृष्टिसंकीर्त्तनं पुण्यं नवधा परिकीर्त्तितम् । कल्पान्तकालनिर्देशो यक्ष्मसृष्टिनिरू- पणम् । रुद्रादिसृष्टिरप्युक्ता द्वीपवर्षानुकीर्त्तनम् । मनूनाञ्च कथा नाना कीर्त्तिताः पापहारिकाः । तासु दुर्गाकथात्यन्तं पुण्यदा चाष्टमेऽन्तरे । तत्पश्चात् प्रण- वोत्पत्तिस्त्रयोतेजःसमुद्भवः । मार्त्तण्डस्य च जन्मा- ख्या तन्माहात्स्यसमाचिता । वैवस्वतान्वयश्चापि वत्स- प्र्यश्चरितं ततः । खनित्रस्व ततः प्रोक्ता कथा पुण्या महात्मनः । अविक्षिच्चरितं चैव किमिच्छव्रतकीर्त्तनम् । नरिष्यन्तस्य चरितं इक्ष्वाकुचरितं ततः । तुलस्याश्चरितं पश्चाद्रामचन्द्रस्य सत्कथा । कुशवंशसमाख्यानं सोमवंशा- नुकीर्त्तनम् । पुरूरवःकथा पुण्या नहुषस्य कथाद्भुता । ययातिचरितं पुण्यं यदुवंशानुकीर्त्तनम् । श्रीकृष्णवाल- चरितं माथुरं चरितं ततः । द्वारकाचरितञ्चाथ कथा सर्वावतारजा । ततः साङ्ख्यसमुद्देशः प्रपञ्चासत्त्व- कीर्त्तनम् । मार्कण्डेयस्य चरितं पुराणश्रवणे फलम्” । यः शृणोति नरो मक्त्या पुराणमिदमादरात् । मार्क- ण्डेयाभिधं वत्स! स लभेत् परमां गतिम् । यस्तु व्या- कुरुते चैतच्छैवं स लभते पदम् । तत्प्रयच्छेल्लिखित्वा यः सौवर्णकरिसंयुतम् । कार्त्तिक्यां द्विजवर्य्याय स लभेद् ब्रह्मणः पदम् । शृणोति श्रावयेद् वापि यश्चानुक्रमणी- मिमाम् । मार्कण्डेयपुराणस्य स लभेद् वाञ्छितं फलम्” ।


शब्दकल्पद्रुमः

मार्कण्डेयः || पुं, (मृकण्डोरपत्यं । मृकण्डु + शुभ्रा- दिभ्यश्च ।” ४ । १ । १२३ । इति ढक् ।)
मृकण्डु- मुनिपुत्त्रः । जन्मतिथ्यादौ पूजायां तस्य ध्यानं यथा, “द्विभुजं जटिलं सौम्यं सुवृद्धं चिरजीविनम् । मार्कण्डेयं नरो भक्त्या पूजयेच्च चिरायुषम् ॥” तस्य प्रार्थनामन्त्रः । “चिरजीवी यथा त्वं भो भविष्यामि तथा मुने ! । रूपवान् वित्तवांश्चैव श्रिया युक्तश्च सर्व्वदा ॥ मार्कण्डेय महाभाग ! सप्तकल्पान्तजीवन ! । आयुरिष्टार्थसिद्ध्यर्थमस्माकं वरदो भव ॥” इति तिथ्यादितत्त्वम् ॥ तस्योत्पत्त्यादिर्यथा, मार्कण्डेय उवाच । “देवौ धातृविधातारौ भृगोः ख्यातिरसूयत । श्रियञ्च देवदेवस्य पत्नी नारायणस्य या ॥ आयतिर्नियतिश्चैव मेरोः कन्ये महात्मनः । भार्य्ये धातृविधात्रोस्ते तयोर्जातौ सुतावुभौ ॥ प्राणश्चैव मृकण्डुश्च पिता मम महायशाः । मनस्विन्यामहं तस्मात् पुत्त्रो वेदशिरा मम ॥ धूम्रवत्यां समभवत् प्राणस्यापि निबोध मे ॥” इति श्रीमार्कण्डेयपुराणे रुद्रसर्गाध्यायः ॥ अपि च । पुलस्त्य उवाच । “अथ ते संप्रवक्ष्यामि मार्कण्डोत्पत्तिमुत्तमाम् । पुरा कल्पे मुनिः पूर्ब्बं मृकण्डुर्नाम विशुतः ॥ भृगोः पुत्त्रो महाभागः सभार्य्यस्तप्तवांस्तपः । तस्य पुत्त्रस्तदा जातो वसतस्तु वनान्तरे ॥ स पञ्चवर्षको जातो बाल एव गुणान्वितः । ज्ञानिना स तदा दृष्टो भ्रमित्वा लघुप्राङ्गणे ॥ स्थित्वा स सुचिरं कालं जीवनञ्च ततो दितम् । वीक्ष्य चिन्तापरो ज्ञानी किं वर्षो बालकस्तव ॥ दितं खण्डितम् । संख्यया चाष्टवर्षाणि जातानीति न्यवेदयत् । मृकण्डुनैव मुक्तस्तु स ज्ञानी वाक्यमब्रवीत् ॥ मासमायुश्च पुत्त्रस्य तेऽवशिष्टं मुनीश्वर ! । नैव शोकस्त्वया कार्य्यः सत्यमेतदुदाहृतम् ॥ एतत् श्रुत्वा वचो भीष्म ! ज्ञानिना यदुदाहृतम् । व्रतोपनयनं चक्रे बालकस्य पिता तदा ॥ आह चैनं पिता पुत्त्रमृषिं त्वमभिवादय । एवमुक्तः स वै पित्रा ऋषिं भक्त्या ननाम सः ॥ एतस्मिन्नन्तरे तत्र प्रदीप्ताः पावकोपमाः । मार्गेणापि समायातास्तेन सप्तर्षयोऽमलाः ॥ बालेन तेन दृष्टास्ते सर्व्वे समभिवादिताः । आयुष्मान् भव तैरुक्तः स जहौ दण्डमेखलाम् ॥ उक्तास्ते च पुनर्व्वाणीं पश्यन्तः क्षीणजीवितम् । दिनानि पञ्च ते चायुर्ज्ञात्वा भीताभवन् पुनः ॥ तमुत्क्षिप्य ब्राह्मणा वै गतास्ते ब्रह्मणोऽन्तिकम् । प्रतिमुच्य च तं बालं प्रणिपेतुः पितामहम् ॥ आयुष्मान् भव इत्याह तेन ब्रह्माभिवादितः । चिरायुर्ब्रह्मणा बालः प्रोक्तः स ऋषिसन्निधौ ॥ ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात् । पितामहस्तु सप्तर्षीन् दृष्ट्वा प्रोवाच विस्मितान् ॥ कार्य्येण येन वा याताः कोऽयं बालो निवेद्यताम् । ततः सप्तर्षयो राजन् ! सर्व्वं तस्मै न्यवेदयन् ॥ भृगोः सूनुर्मृकण्डुस्तु क्षीणायुस्तस्य बालकः । अल्पायुषस्ततस्तस्य बद्धास्तेनास्य मेखलाः ॥ यज्ञोपवीतं दण्डञ्च दत्त्वा तेन प्रबोधितः । यं कञ्चित् पश्यसे लोकं भ्रमन्तं भूतले जनम् ॥ तस्याभिवादनं कार्य्यमेवमाह पितामहः । तावद्बयमनेनाथ क्षितौ दृष्टाः परिभ्रमन् ॥ एकत्वमार्षम् । तीर्थयात्राप्रसङ्गेन दैवयोगात् पितामह ! । चिरायुर्भव वै विप्र ! बालेत्यस्माभिरीरितम् ॥ कथं चिरायुः स्याद्बिप्रबालकः साम्प्रतं प्रभो ! । कथं नानृतिनो देव ! भवामो भवता वयम् ॥ एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहः । ऋतवाचो भविष्यामः सर्व्वे एव वयं स्थिताः ॥ मत्समश्चायुषा बालो मार्कण्डेयो भविष्यति । ऋषीणां मुख्यतश्चासौ मत्सहायो भविष्यति । कल्पस्यादौ तथा चान्ते वृतो मुनिभिरुत्तमैः ॥ एवन्ते मुनयो बालं ब्रह्मा लोकपितामहः । स्रम्बोध्य प्रेषयामास भूयोऽप्येवं परन्तप ! ॥ तीर्थयात्रां गता विप्रा मार्कण्डेयो निजं गृहम् । जगाम गत्वा तं विप्रं पितरं स तथाब्रवीत् ॥” इति पाद्मे सृष्टिखण्डे ३० अध्यायः ॥ अपरञ्च । व्यास उवाच । “मार्कण्डेयेन मुनिना यथा मृत्युः पराजितः । तथा ते कथयिष्यामि शृणु वत्स ! महामते ! ॥ भृगोः पौत्त्रो महाभागो बालत्वे च महाद्युतिः । ववृधे वल्लभो बालः पिता तस्य कृतक्रियः ॥ स तस्मिन् वै जातमात्रे आदेशी कश्चिदब्रवीत् । वर्षे द्बादशमे पूर्णे मृत्युरस्य भविष्यति ॥ शुत्वा तन्मातापितरौ दुःखितौ तौ बभूवतुः । तौ दृष्ट्वा दुःखसम्पन्नौ मार्कण्डेयो महामतिः ॥ उवाच वचनं तत्र किमर्थं दुःखमीदृशम् । वक्तुमर्हसि दुःखस्य कारणं मम पृच्छतः ॥ कथयामास तत् सर्व्वमादेशी यदुवाच ह । तत् श्रुत्वा तौ मुनिः प्राह मातरं पितरं पुनः ॥ पित्रा सार्द्धं त्वया मातर्न कार्य्यं दुःखमन्वहम् । अपनेष्यामि मे मृत्युं तपसा नात्र संशयः । यथा चाहं चिरायुः स्यां तथा कुर्य्यामहं तपः ॥ सूत उवाच । इत्युक्त्वा तौ समाश्वास्य पितरौ वनमभ्यगात् । तत्र विष्णुं प्रतिष्ठाप्य गन्धपुष्पादिभिः क्रमात् । पूजयामास देवेशं मार्कण्डेयो महामुनिः ॥ पूजयित्वा हरिं तत्र तपस्तेपे सुदुष्करम् । निराहारो मुनिस्तत्र वर्षमेकमतन्द्रितः ॥ मात्रोक्तमरणासन्नदिने तत्र महामतिः । स्नात्वा यथोक्तविधिना कृत्वा विष्णोस्तथार्च्चनम् ॥ हृदि कृत्वेन्द्रियग्रामं विशुद्धेनान्तरात्मना । आसनं स्वस्तिकं बद्ध्वा कृत्वासौ प्राणसंयमम् ॥ ॐकारीच्चारणाद्धीमान् हृदि पद्मं विकाशयन् । तन्मध्ये रविसोमाग्निमण्डलानि यथाक्रमम् ॥ कल्पयित्वा हरेः पीठं तस्मिन्नेव सनातनम् । पीताम्बरधरं विष्णुं शङ्खचक्रगदाधरम् । ब्रह्मरूपं हरिं ध्यायंस्ततो मनुमुदीरयन् ॥ इत्येवं ध्यायतस्तस्य मार्कण्डेयस्य धीमतः । मनस्तत्रैव संलग्नं देवदेवजगत्पतौ ॥ ततो यमालयात्तत्र आगता यमकिङ्कराः । पाशहस्तास्तु तं नेतुं विष्णुदूतैस्तु ते हताः ॥ मुषलैर्हन्यमानास्ते इदमुक्त्वा पुनः पुनः । वयं निवृत्ता गच्छामो मृत्युरेवागमिष्यति ॥ आगत्य स्वयमेवात्र मृत्युः पार्श्वे महात्मनः । मार्कण्डेयस्य बभ्राम विष्णुकिङ्करशङ्कया ॥ ते चाप्युद्गम्य मुषलान्यभ्ययुर्विष्णुकिङ्कराः । विष्ण्वाज्ञया हनिष्यामो मृत्युमस्येति संस्थिताः ॥ ततो विष्ण्वर्पितमना मार्कण्डेयो महामतिः । तुष्टाव प्रणतो भूत्वा देवदेवं जनार्द्दनम् ॥ विष्णुनैवोपदिष्टन्तु स्तोत्रं कर्णे महात्मनः । स्वभावितेन मनसा तेन तुष्टाव माधवम् ॥ ॐ नमो भगवते वासुदेवाय । नारायणं सहस्राक्षं पद्मनाभं पुरातनम् । प्रणतोऽस्मि हृषीकेशं किन्नो मृत्युः करिष्यति ॥ गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् । केशवञ्च प्रपन्नोऽस्मि किन्नो मृत्युः करिष्यति ॥ वासुदेवं जगद्योनिं भानुमन्तमतीन्द्रियम् । दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ शङ्खचक्रधरं देवं छद्मरूपिणमव्ययम् । अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ बाराहं वामनं विष्णुं नारसिंहं जनार्द्दनम् । माधवञ्च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ पुरुषं पुष्करं बीजं क्षेमबीजं जगत्पतिम् । लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् । विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ सहस्रशिरसं देवं व्यक्ताव्यक्तं सनातनम् । महायोगं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥ इत्युदीरितमाकर्ण्य स्तोत्रं तत्र महात्मनः । अपयातस्ततो मृत्युर्विष्णुदूतैश्च पीडितः ॥ इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता । प्रसन्ने पुण्डरीकाक्षे नृसिंहे नास्ति दुर्लभम् ॥ मृत्य्यष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् । मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥” श्रीभगवानुवाच । “य इदं पठते भक्त्या त्रिकालं नियतः शुचिः । नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥” व्यास उवाच । “हृत्पद्ममध्ये पुरुषं पुराणं नारायणं शाश्वतमादिदेवम् । सञ्चिन्त्य सूर्य्यादपि राजमानो मृत्युं स योगी जितवांस्तदैव ॥” इति नारसिंहपुराणे मार्कण्डेयमृत्युञ्जयो नाम अध्यायः ॥ (मार्कण्डेयेन प्रोक्तम् । मार्कण्डेय + अण् । पुराणविशेषः । यथा, देवीभाग- वते । १ । ३ । १ — ३ । “शृण्वन्तु संप्रवक्ष्यामि पुराणानि मुनीश्वराः ।” इत्यारभ्य — तथा ग्रहसहस्रन्तु मार्कण्डेयं महाद्भुतम् ॥”)



Correction: