संस्कृत-शब्दकोशः

मार्दव मार्षिक

मार्ष

वाचस्पत्यम्

मार्ष ||‍ पु० मृष—क ततः स्वार्थे अण् । १ तण्डुलीयशाके भरतः २ नाट्योक्तौ श्रेष्ठे हेमच० ।


शब्दकल्पद्रुमः

मार्षः || पुं, (मृष्यति क्षमते जनानिति । मृष् + “इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः । मृषः । ततः । स्वार्थे अण् ।)
नाठ्योक्तौ श्रेष्ठः । इति हेमचन्द्रः । २ । २४ ॥ मारिषशाकः । इत्यमरटीकायां भरतः ॥ (शाकार्थे पर्य्यायो यथा, —
“मारिषो वाष्पको मार्षः श्वेतो रक्तश्च स स्मृतः ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: