संस्कृत-शब्दकोशः

मालाकण्ट मालाका

मालाकन्द

वाचस्पत्यम्

मालाकन्द ||‍ पु० मालाकारः कन्दो यस्य । मूलभेदे राजनि० ।


शब्दकल्पद्रुमः

मालाकन्दः || पुं, (माला गण्डमाला नाशकः कन्दः । शाकपार्थिववत् मध्यपदलोपी ।)
मूलविशेषः । तत्पर्य्यायः । आविलकन्दः २ त्रिशिखिदला ३ ग्रन्थिदला ४ पादिकन्दः ५ कन्दलता ६ । अस्य गुणाः । सुतीक्ष्णत्वम् । गण्डमालानाशित्वम् । दीपनत्वम् । गुल्महारित्वम् । वातश्लेष्मापकर्ष- कारित्वञ्च । इति राजनिर्घण्टः ॥



Correction: