संस्कृत-शब्दकोशः

मालु मालुधानी

मालुधान

वाचस्पत्यम्

मालुधान ||‍ पु० मालुरिव पत्रलतेव धीयतेऽसौ धा—कर्मणि ल्युट् । (मालुयासाप) १ सर्पभेदे अमरः । २ लताभेदे रत्वो ङीप् मेदि० ।


शब्दकल्पद्रुमः

मालुधानः || पुं, (मालु मरणं विदधातीति । धा + ल्युः ।)
मातुलाहिः । इत्यमरः । १ । ८ । ६ । मालुया साप इति भाषा ॥ अष्टनागान्तर्गत- नागविशेषः । यथा, —
“मालधानश्चित्रसर्पे महापद्मेऽपि दृश्यते ।” इति हारावली ॥



Correction: