वाचस्पत्यम्
माषभक्तबलि || पु० माषमिश्रितं भक्तमेव बलिः पूजोपहार द्रव्यम् । माषमिश्रिते भक्तरूपे पूजोपहारे ।
शब्दकल्पद्रुमः
माषभक्तबलिः || पुं, (माषश्च भक्तञ्च तद्युक्तो बलिः ।)
माषतण्डुलदधिमिश्रितपूजोपहार- विशेषः । अत्र केचित् हरिद्राघृतमध्वपि मिश्रयन्ति । यथा । एष माषभक्तबलिः । “ॐ जय त्वं कालि ! सर्व्वेशे सर्व्वभूतसमावृते । रक्ष मां निजभूतेभ्यो बलिं गृह्ण शिवप्रिये ! ॥” ॐ काल्यै नमः । प्रार्थनामन्त्रो यथा, —
“ॐमातर्मातर्व्वरे दुर्गे सर्व्वकामार्थसाधिनि ! । अनेन बलिदानेन सर्ब्बान् कामान् प्रयच्छ मे ॥” इति कृत्यतत्त्वम् ॥ भूतेभ्योऽप्ययं बलिर्देयः ॥