संस्कृत-शब्दकोशः

मित्र मित्रयुद्ध

मित्रयु

शब्दकल्पद्रुमः

मित्रयुः || त्रि (मित्रं यातीति । या + “क्याच्छ- न्दसि ।” ३ । २ । १७० । इति उः ।)
मित्र- वत्सलः । इति हेमचन्द्रः । ३ । १५३ ॥


शब्दकल्पद्रुमः

मित्रयुः || पुं, (मित्रं यातीति । या + “मृगय्वाद- यश्च ।” उणा० १ । ३८ । इति कुः । निपाति- तश्च ।)
लोकयात्रिकः । इत्युणादिकोषः । संक्षिप्तसारोणादिवृत्तिश्च ॥ (ऋषिभेदः सलोम- हर्षणशिष्यः । यथा, विष्णुपुराणे । ३ । ६ । १८ । “सुमतिश्चाग्निवर्च्चाश्च मित्रयुः शांशपायनः ॥)



Correction: