वाचस्पत्यम्
मिथ्याभियोग || पु० मिथ्याभूतेनासत्येनाभियोगः राज्ञोऽन्तिके वेदनम् अभि—युज—धञ् । शतं मे धारयतीत्यसत्यमुक्त्वा राज्ञोऽन्तिके अभियोगे अमरः ।
शब्दकल्पद्रुमः
मिथ्याभियोगः || पुं, (मिथ्या असत्यमभियोगः ।)
मिथ्यावादः । शतं मे धारयसीत्यादि मिथ्यो- द्भावनम् । तत्पर्य्यायः । अभ्याख्यानम् २ । इत्यमरभरतौ ॥