संस्कृत-शब्दकोशः

मीर मीलन

मील

वाचस्पत्यम्

मील ||‍ निमेषे भ्वा० पर० अक० सेट् । मीलति अमीलीत् । ऋदित् चङि वा ह्रस्वः ।


शब्दकल्पद्रुमः

मील || ॠ निमेषे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।)
ॠ अमिमीलत् अमी- मिलत् । मीलति चक्षुः पक्ष्मभिरावृतं स्यादि- त्यर्थः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मीलं || क्ली (मीलतीति । मील + कः ।)
वनम् । इति केचित् ॥



Correction: