वाचस्पत्यम्
मु || पु० मोचयति जीवान् ण्यर्थे मुच डु । १ महेशे हट्टच० २ बन्धने एका० ।
शब्दकल्पद्रुमः
मुः || पुं, (मव् + बाहुलकात् डुन् । टिलोपश्च ।) बन्धनम् । इत्येकाक्षरकोषः ॥ महेशः । इति हड्डचन्द्रः ॥