वाचस्पत्यम्
मुकूलक || पु० मकि—जलच् सज्ञायां कन् । दन्तिवृक्षे । रामाश्रमः ।
शब्दकल्पद्रुमः
मुकूलकः || पुं, (मुच् + बाहुलकादूलच् पृषोदरा- दित्वात् कुत्वम् । ततः संज्ञायां कन् ।)
दन्ति- वृक्षः । इत्यमरटीकायां रामाश्रमः ॥ (तथास्य पर्य्यायः ॥ “चित्रा दन्ती निकुम्भः स्यादुपचित्रा मुकूलकः । दाक्षायणी विशल्या च तथोडुम्बरपर्ण्यपि ॥” इति वैद्यकरत्नमालायाम् ॥ “दन्त्युदुम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः । द्रवन्ती नामतश्चित्रान्यग्रोधा मूषिकाह्वया ॥” इति चरके कल्पस्थाने द्वादशेऽध्याये ॥)