वाचस्पत्यम्
मुक्ताफल || न० मुक्ता फलमिव । १ मौक्तिके, २ सवलीफले, (नोयाड) ३ कर्पूरे च मेदि० । ४ वोपदेवकृते भक्तिप्रधाने ग्रन्थभेदे च “चतुरेख चतुर्वर्गचिन्तामणिबणिज्यया । हेमाद्रिर्वोपदेवेन मुक्ताफलमचीकरत्” तद्ग्रन्थस्थ पद्यम् ।
शब्दकल्पद्रुमः
मुक्ताफलं || क्ली (मुक्ताफलमिव ।)
कर्पूरम् । (मुक्तैव फलमिव ।)
मौक्तिकम् । (यथा, मुग्ध- बोघटीकायां कारके । ढेनार्थादित्यत्र । दुर्गा- दासधृतम् । “मुक्ताफलाय करिणं हरिणं पलाय सिंहं निहन्ति भुजविक्रमसूचनाय ॥”)
लवलीफलम् । इति मेदिनी । ले, १६६ ॥ (मौक्तिकार्थेऽस्य पर्य्यायः । “मौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलञ्च तत् ।” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ यथास्य भस्मकरणविधिः । “मुक्ताफलानि शुद्धानि खल्ले पिष्ट्वा पुटेल्लघु । एवं भस्मत्वमाप्नोति — ॥” इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणाधि- कारे ॥)
वोपदेवकृतग्रन्थविशेषः । यथा, —
“मुक्ताफलेन ग्रन्थेन सद्भागवतशुक्तिना । भक्तिस्वात्यम्बुना मुग्धमार्कण्डेयशिशुश्रिया ॥ विद्बद्धनेशशिष्येण भिषक्केशवसूनुना । हेमाद्रिर्वोपदेवेन मुक्ताफलमचीकरत् ॥” इति तस्य चतुर्थोपान्त्यश्लोकद्बयम् ॥ अथ मुक्ताफल परीक्षा । “द्बिपेन्द्रजीमूतवराहशङ्ख- मत्स्याहिशुक्त्युद्भववेणुजानि । मुक्ताफलानि प्रथितानि लोके तेषाञ्च शुक्त्युद्भवमेव भूरि ॥ तत्रैव चैकस्य हि मूलमात्रा निविश्यते रत्नपरस्य जातु । वेध्यन्तु शुक्त्युद्भवमेव तेषां शेषाण्यवेध्यानि वदन्ति तज्ज्ञाः ॥ त्वक्सारनागेन्द्रतिमिप्रसूतं यत् शङ्खजं यच्च वराहजातम् । प्रायो विमुक्तानि भवन्ति भासा शस्तानि माङ्गल्यतया तथापि ॥ या मौक्तिकानामिह जातयोऽष्टौ प्रकीर्त्तिता रत्नविनिश्चयज्ञैः । कम्बूद्भवं तेष्वध मम्प्रदिष्ट- मुत्पद्यते यच्च गजेन्द्रकुम्भात् ॥ स्वयोनिमध्यच्छवितुल्यवर्णं शाङ्खं बृहत्कोलफलप्रमाणम् । उत्पद्यते वारणकुम्भमध्या- दापीतवर्णं प्रभया विहीनम् ॥ ये कम्बवः शार्ङ्गमुखावमर्ष- पीतस्य शङ्खप्रवरस्य गोत्रे मतङ्गजाश्चापि विशुद्धवंश्या- स्ते मौक्तिकानां प्रभवाः प्रदिष्टाः ॥ पाठीनपृष्ठस्य समानवर्णं मीनात् सुवृत्तं लघुनातिसूक्ष्मम् । उत्पद्यते वारिचराननेषु मत्स्याश्च ते मध्यचराः पयोधेः ॥ वराहदंष्ट्राप्रभवं प्रदिष्ठं तस्यैव दंष्ट्राङ्कुरतुल्यवर्णम् । क्वचित् कथञ्चित् स भुवः प्रदेशे प्रजायते शूकरवद्बिशिष्टः ॥ वर्षोपलानां समवर्णशोभं- त्वक्सारपर्व्वप्रभवम्प्रदिष्टम् । ते वेणवो दिव्यजनोपभोग्ये स्थाने प्ररोहन्ति न सार्व्वजन्ये ॥ भौजङ्गमं मीनविशुद्धवृत्तं संस्थानतोऽत्युज्ज्वलवर्णशोभम् । नितान्तधौतप्रविकल्प्यमान- निस्त्रिंशधारासमवर्णकान्ति ॥ प्राप्यैति रत्नानि महाप्रभाणि राज्यं श्रियं वा महतीं दुरापाम् । पात्रं हि नापुण्यकृतो भवन्ति मुक्ताफलस्याहिशिरोभवस्य ॥ जिज्ञासया रत्नधनं विधिज्ञैः शुभे मुहूर्त्ते प्रयतैः प्रयत्नात् । रक्षाविधानं सुमहद्बिधाय हर्म्म्योपरिस्थं क्रियते यदा तत् ॥ तदा महादुन्दुभिमन्द्रघोषै- र्विद्युल्लताविस्फुरितान्तरालैः । पयोधराक्रान्तिविलम्बलम्बै- र्घनैर्घनैर्व्वा व्रियतेऽन्तरीक्षम् ॥ न तं भुजङ्गा न च जातुधाना न व्याधयो नाप्युपसर्गदोषाः । हिंसन्ति यस्याहिशिरःसमुत्थं मुक्ताफलं तिष्ठति पूज्यमानम् ॥ नाभ्येति मेघप्रभवं धरित्रीं वियद्गतं तद्बिबुधा हरन्ति । अर्च्चिःप्रभानावृतदिग्विभाग- मादित्यवद्दुःखविभाव्यविम्बम् ॥ तेजस्तिरस्कृत्य हुताशनेन्दु- नक्षत्रताराप्रभवं समग्रम् । दिवा यथा दीप्तिकरं तथैव तमोऽवगाढास्वपि तन्निशासु ॥ विचित्ररत्नद्युतिसारतोय- चतुःसमुद्राभरणोपपन्ना । कृत्स्ना न वा स्यादिति निश्चयो मे मूल्यं मही तस्य सुवर्णपूर्णा ॥ हीनोऽपि यस्तल्लभते कदाचिद्- विपाकयोगान्महतः शुभस्य । सपत्नहीनां स महीं समग्रां भुनक्ति तत्तिष्ठति यावदेव ॥ न केवलं तच्छुभकृन्नृपस्य भाग्यैः प्रजानामपि तस्य जन्म । यद्योजनानां परितः सहस्रं सर्व्वाननर्थान् विमुखीकरोति ॥ नक्षत्रमालेव दिवो विशीर्णा दन्तावली तस्य महासुरस्य । विचित्रवर्णेषु विशुद्धवर्णा पयःसु पत्युः पयसां पपात ॥ सम्पूर्णचन्द्रांशुकलापकान्ते- र्मणिप्रवेकस्य महागुणस्य । तच्छुक्तिमप्सु स्थितमापबीज- मासन् पुराप्यन्यभवानि यानि ॥ यस्मिन् प्रदेशेऽम्बुनिधौ पपात सुचारु मुक्तामणिरत्नबीजम् । तस्मिन् पयस्तोयधरावकीर्णं शुक्तौ स्थितं मौक्तिकतामवाप ॥ सैंहलिकपारलौकिकसौरा- ष्ट्रिकताम्रपर्णपारसवाः । कौवेरपाण्ड्यहाटक- हेमका इत्याकरास्त्वष्टौ ॥ शुक्त्युद्भवं नातिनिकृष्टवर्णं प्रमाणसंस्थानगुणप्रभाभिः । उत्पद्यते वर्द्धनपारसीक- पाताललोकान्तरसिंहलेषु ॥ चिन्त्या न तस्याकरजा विशेषा रूपे प्रमाणे च यतेत विद्वान् । न च व्यवस्थास्ति गुणागुणेषु सर्व्वत्र सर्व्वाकृतयो वसन्ति ॥ एकस्य शुक्तिप्रभवस्य मुक्ता- फलस्य शाणेन समुन्मितस्य । मूल्यं सहस्राणि तु रूपकाणां त्रिभिः शतैरभ्यधिकानि पञ्च ॥ यन्माषकार्द्धेन ततो विहीनं तत्पञ्चभागद्वयहीनमूल्यम् । यन्माषकांस्त्रीन् बिभृयात् सहस्रे द्वे तस्य मूल्यं परमं प्रदिष्टम् ॥ अर्द्धाधिकौ द्वौ वहतोऽस्य मूल्यं त्रिभिः शतैरभ्यधिकं सहस्रम् । द्विमाषकोन्मापितगौरवस्य शतानि चाष्टौ कथितानि मूल्यम् ॥ अर्द्धाधिकं माषकमुन्मितस्य सपञ्चविंशत्रितयं शतानाम् । गुञ्जाश्च षड् धारयतः शते द्वे मूल्यं परं तस्य वदन्ति तज्ज्ञाः ॥ अध्यर्द्धमुन्मापकृतं शतं स्यान् मूल्यं गुणैस्तस्य समन्वितस्य । यदि षोडशभिर्भवेदनूनं धरणं तत्प्रवदन्ति दार्व्विकाख्यम् ॥ अधिकं दशभिः शतञ्च मूल्यं समवाप्नोत्यपि वालिशस्य हस्तात् । द्विगुणैर्दशभिर्भवेदनूनं धरणं तद्भवकं वदन्ति तज्ज्ञाः ॥ नवसप्ततिमाप्नुयात् स्वमूल्यं यदि न स्याद्गुणसम्पदा विहीनम् ॥ त्रिंशता धरणं पूर्णं शिक्यं तस्येति कीर्त्त्यते ॥ चत्वारिंशद्भवेत्तस्याः परं मूल्यं विनिश्चयः । चत्वारिंशद्भवेच्छिक्थो विंशंमूल्यं लभेत सा ॥ षष्टिर्निकरशीर्षं स्यात्तस्य मूल्यं चतुर्द्दश । अशीतिर्नवतिश्चैव कुप्येति परिकीर्त्तिता । एकादश स्यान्नव च तयोर्मूल्यमनुक्रमात् ॥ आदाय तत् सकलमेव ततोऽन्नभाण्डं जम्बीरजातरसयोजनया विपक्वम् । घृष्टं ततो मृदुतनूकृतपिण्डमूलैः कुर्य्याद्यथेष्टमनुमौक्तिकमाशु विद्धम् ॥ मृल्लिप्तमत्स्यपुटमध्यगतन्तु कृत्वा पश्चात् पचेत्तनु ततश्च वितानपत्या । दुग्धे ततः पयसि तं विपचेत् सुधायां पक्वं ततोऽपि पयसा शुचि चिक्वणेन ॥ शुद्धं ततो विमलवस्त्रनिघर्षणेन स्यान्मौक्तिकं विपुलसद्गुणकान्तियुक्तम् । व्याडिर्जगाद जगतां हि महाप्रभाव- सिद्धो विदग्धहिततत्परया दयालुः ॥ श्वेतकाचसमं तारं हेमांशशतयोजितम् । रसमध्ये प्रधार्य्येत मौक्तिकं देहभूषणम् ॥ एवं हि सिंहले देशे कुर्व्वन्ति कुशला जनाः । यस्मिन् कृत्रिमसन्देहः क्वचिद्भवति मौक्तिके ॥ उष्णे सलवणे स्नेहे निशां तद्वासयेज्जले । ब्रीहिभिर्मर्द्दनीयं वा शुष्कवस्त्रोपवेष्टितम् ॥ यत्तु नायाति वैवर्णं विज्ञेयं तदकृत्रिमम् ॥ सितं प्रमाणवत् स्निग्धं गुरु स्वच्छं सुनिर्म्मलम् । तेजोऽधिकं सुवृत्तञ्च मौक्तिकं गुणवत् स्मृतम् ॥ प्रमाणवद्गौरवरश्मियुक्तं सितं सुवृत्तं सममूक्ष्मवेधम् । अक्रेतुरप्यावहति प्रमोदं यन्मौक्तिकं तद्गुणवत् प्रदिष्टम् ॥ एवं समस्तेन गुणोदयेन यन्मौक्तिकं योगमुपागतं स्यात् । न तस्य भर्त्तारमनर्थेजात एकोऽपि कश्चित् समुपैति दोषः ॥” इति गारुडे ६९ अध्यायः ॥