वाचस्पत्यम्
मुक्तावली || स्त्री मुक्तया आवली हारभेदः । १ मुक्ताहारे अमरः । ६ त० । २ मुक्ताश्रेणौ भाषापरिच्छेदग्रन्थ- टीकायां ३ सिद्धान्तमुक्तावल्यां च ।
शब्दकल्पद्रुमः
मुक्तावली || स्त्री (मुक्तानां आवल्यत्र)
मुक्ता- हारः । इत्यमरः । २ । ६ । १०५ ॥ (मुक्तानामा- वली ।)
मौक्तिकश्रेणी च ॥ (तालविशेषः । यथा, सङ्गीतदामोदरे । “खत्रयं सविरामान्तं नौ पुनः खत्रयं तथा । प्लुतौगः खयुगं गश्च यत्र मुक्तावली तु सा ॥”)