वाचस्पत्यम्
मुखमोद || पु० मुखं मोदयति मुद—णिच्—अण् उप० स० । शोभाञ्जने राजनि० ।
शब्दकल्पद्रुमः
मुखमोदः || पुं, (मुखस्य मोदः हर्षः अस्मात् ।) शोभाञ्जनः । इति राजनिर्घण्टः ॥