संस्कृत-शब्दकोशः

मुखरित मुखलाङ्गल

मुखरोग

वाचस्पत्यम्

मुखरोग ||‍ पु० सप्ताङ्गस्य मुखस्य रोगः । सप्ताङ्गमुखस्य रोगभेदे तन्निदानादि यथा “ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते” । अथ मुखरोगाणां संङ्ख्यामाह “स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा । दन्तेष्वष्टौ रसज्ञायां पञ्च स्युर्नव तालुनि । कण्ठे त्वष्टा- दश प्रोक्तास्त्रयः सर्वसराः स्मृताः । एवं मुखामयाः सर्वे सप्तषष्टिर्मता बुधैः” मुखरोगाणां निदानान्याह “अनूपपिशितक्षीरदधिमाषादिसेवनात् । मुखमध्ये गदान् कुर्युः क्रुद्धा दोषाः कफोत्तराः” भावप्र० ।


शब्दकल्पद्रुमः

मुखरोगः || पुं, (मुखस्य रोगः ।)
वक्त्रामयः । (यथा, मार्कण्डेये । १५ । ३५ । “पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा च प्रपीडितः । मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते ॥”)
तत्र मुखस्य स्वरूपमाह । “ओष्ठौ च दन्तमूलानि दन्ता जिह्वा च तालु च । गलो गलादि सकलं सप्ताङ्गं मुखमुच्यते ॥” अथ मुखरोगाणां संख्यामाह । ‘स्युरष्टावोष्ठयोर्दन्तमूले तु दश षट् तथा । दन्तेष्वष्टौ रसज्ञायां पञ्च स्युर्नव तालुनि ॥ कण्ठे त्वष्टादश प्रोक्तास्त्रयः सर्व्वसराः स्मृताः । एवं मुखामयाः सर्व्वे सप्तषष्टिर्मता बुधैः ॥’ मुखरोगाणां निदानान्याह । ‘अनूपपिशितक्षीरदधिमाषादिसेवनात् । मुखमध्ये गदान् कुर्य्युः क्रुद्धा दोषाः कफोत्तराः ॥’ तत्रौष्ठरोगाः । तेषां निदानपूर्ब्बिकां संख्याञ्चाह । ‘पृथग्दोषैः समस्तैश्च रक्तजो मांसजस्तथा । मेदोजश्चाभिघातोत्थ एवमष्टौष्ठजा गदाः ॥’ तत्र वातिकस्य लक्षणमाह । ‘कर्क्कशौ परुषौ स्तब्धौ कृष्णौ तीव्रसुगन्धिनौ । दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः ॥’ परुषौ रूक्षौ । दाल्येते विदार्य्येते । परिपाट्येते किञ्चिद्बिदीर्णत्वचौ क्रियेते ॥ पैत्तिकमाह । ‘चीयेते पिडकाभिस्तु सरुजाभिः समन्ततः । सदाहपाकपिडकौ पीताभासौ च पित्ततः ॥’ श्लैष्मिकमाह । ‘सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ । कण्डूमन्तौ कफादोष्ठौ पिच्छिलौ शीतलौ गुरू ॥’ सान्निपातिकमाह । ‘सकृत् कृष्णौ सकृत् पीतौ सकृत् श्वेतौ तथैव च । सन्निपातेन विज्ञेयावनेकपिडकान्वितौ ॥’ रक्तजमाह । ‘खर्ज्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ । रक्तोपसृष्टौ रुधिरं स्रवन्तौ शोणितप्रभौ ॥’ मांसजमाह । ‘मांसदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ । जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात् ॥’ जन्तवः कृमयः । मूर्च्छन्ति वर्द्धन्ते । मुखादुभ- यतः सृक्कण्योः ॥ * ॥
मेदोजमाह । ‘सर्पिर्मण्डप्रतीकासो मेदसा कण्डुरौ गुरू । स्वच्छस्फटिकसङ्काशमास्रावं स्रवतो भृशम् ॥’ अभिघातजमाह । ‘क्षतजाभौ विदीर्य्येते पीड्येते चाभिघाततः । मथितौ च समाख्यातावोष्ठौ कण्डूसमन्वितौ ॥’ मथितौ मृदिताविव । अतएव क्षतजाभौ रुधि- राभाविति सङ्गतम् ॥ * ॥
अथौष्ठरोगाणां चिकित्सा । ‘गलदन्तमूलदशनच्छदेषु रोगाः कफास्र- भूयिष्ठाः । तस्मादेतेष्वसकृद्रुधिरं विस्रावयेद्दुष्टम् ॥ चतुर्व्विधेन स्नेहेन मधूच्छिष्टयुतेन च । वातजेऽभ्यञ्जनं कुर्य्यान्नाडीस्वेदञ्च बुद्धिमान् ॥’ चतुर्विधेन स्नेहेन तैलघृतवसामज्जरूपेण । वेधं शिराणां वमनं विरेकं तिक्तस्य पानं रसभोजनञ्च । शीताः प्रदेहाः परिषेचनञ्च पित्तोपसृष्टेष्वधरेषु कुर्य्यात् ॥ शिरोविरेचनं धूमः स्वेदः कवल एव च । हृते रक्ते प्रयोक्तव्यं ओष्ठकोपे कफात्मके ॥ मेदोजे स्वेदिते भिन्ने शोधिते कषलो हितः । प्रियङ्गु त्रिफला लोध्रं सक्षौद्रं प्रतिसार- णम् ॥’ प्रतिसारस्य विधिमाह । ‘दन्तजिह्वामुखानां यच्चूर्णकल्कावलेहनैः । शनैर्घर्षणमङ्गुल्या तदुक्तं प्रतिसारणम् ॥ ओष्ठरोगेष्वशेषेषु दृष्ट्वा दोषमुपाचरेत् । तेषु व्रणत्वं यातेषु व्रणवत् समुपाचरेत् ॥’ अथ दन्तवेष्टरोगाः । तत्र दन्तवेष्टरोगाणां नामानि संख्याञ्चाह । ‘शीतादो गदितः पूर्ब्बं दन्तपुप्पुटकस्तथा । दन्तवेष्टः शैशिरश्च महाशैशिर एव च ॥ ततः परिदरः प्रोक्तस्ततस्तूपकुशः स्मृतः । वैदर्भश्च ततः प्रोक्तः खलिवर्द्धन एव च ॥ अधिमांसकनामा च दन्तनाड्यश्च पञ्च च । दन्तविद्रधिरप्यत्र दन्तवेष्टेषु षोडश ॥’ तत्र शीतादस्य लक्षणमाह । ‘शोणितं दन्तवेष्टेभ्यो यत्राकस्मात् प्रवर्त्तते । दुर्गन्धीनि सकृष्णानि उत्क्लेदीनि मृदूनि च ॥ दन्तमांसानि शीर्य्यन्ते पचन्ति च परस्परम् । शीतादो नाम स व्याधिः कफशोणितसम्भवः ॥’ दन्तवेष्टेभ्यः दन्तवेष्टनमांसेभ्यः । अकस्मात् अमिघातं विना शीर्य्यन्ते पतन्ति । पचन्ति च परस्परं पाकोप्मणा मांसानि शोणितं पचन्ति शोणितं मांसानि पचति ॥ दन्तपुप्पुटमाह । ‘दन्तयोस्त्रिषु वा यत्र श्वयथुर्जायते महान् । दन्तपुप्पुटको नाम स व्याधिः कफरक्तजः ॥’ दन्तवेष्टमाह । ‘स्रवन्ति पूयं रुधिरं चला दन्ता भवन्ति च । दन्तवेष्टः स विज्ञेयो दुष्टशोणितसम्भवः ॥’ अत्र दन्तमूलानीति कर्त्तृपदमध्याहरणीयम् ॥ शैशिरमाह । ‘श्वयथुर्दन्तमूलेषु रुजावान् कफवातजः । लालास्रावी कण्डुरश्च विज्ञेयः शैशिरो गदः ॥ महाशैशिरमाह । ‘दन्ताश्चलन्ति वेष्टेम्यस्तालु चाप्यवदीर्य्यते । यस्मिन् स सर्व्वजो व्याधिर्महाशैशिरसंज्ञकः ॥’ तालु चाप्यवदीर्य्यते चकारात् दन्तवेष्टौ चाप्यव- दीर्य्येते । सप्तरात्रान् मारकश्चायं यत आह भोजः । महाशैशिर इत्येष सप्तरात्रान् निह- न्त्यसून् ॥ * ॥
परिदरमाह । ‘दन्तमांसानि शीर्य्यन्ते यस्मिन् स्रवति चाप्यसृक् । पित्तासृक्कफजो व्याधिर्ज्ञेयः परिदरो हि सः ॥’ उपकुशमाह । ‘वेष्टेषु दाहः पाकश्च ताभ्यां दन्ताश्चलन्ति हि । आघट्टिताः प्रस्रवन्ति शोणितं मन्दवेदनम् ॥ आध्मायते श्रुते रक्ते मुखं पूति च जायते । यस्मिन्नुपकुशः स स्यात् पित्तरक्तसमुद्भवः ॥’ आघट्टिताः घृष्टाः ॥ * ॥
वैदर्भमाह । ‘घृष्टेषु दन्तमूलेषु संरम्भो जायते महान् । चलन्ति च रदा यस्मिन् स वैदर्भोऽभिघातजः ॥’ संरम्भः शोथः । चलन्ति चेति चकाराद्वेदना- दाहपाकाः ॥ * ॥
खलिवर्द्धनमाह । ‘मारुतेनाधिको दन्तो जायते तीव्रवेदनः । खलिवर्द्धनसंज्ञोऽसौ संजाते रुक् प्रशाम्यति ॥’ सञ्जाते दन्ते ॥ * ॥
अधिमांसकमाह । हानव्ये पश्चिमे दन्ते महान् शोथो महारुजः । लालास्रावी कफकृतो विज्ञेयः सोऽधिमांसकः ॥ हानव्ये हनुभवे पश्चिमे दन्ते ॥ * ॥
पञ्चदन्त- नाडीराह । ‘दन्तमूलगता नाड्यः पञ्च ज्ञेया यथेरिताः ।’ यथेरिता यथा नाडीव्रणे वातपित्तकफसन्नि- पातागन्तुनिमित्ताः पञ्चनाड्यः कथितास्तथात्रा- पीत्यर्थः ॥ * ॥
दन्तविद्रधिमाह । ‘दन्तमांसमलैः सास्रैर्वाह्यान्तःश्वयथुर्महान् । सदाहरुक् स्रवेद्भिन्नः पूयास्रं दन्तविद्रधिः ॥’ दन्तमांसमलैः दन्तवेष्टगतदोषैः । सास्रैः सरक्तै- र्हेतुभिः ॥ * ॥
अथ दन्तवेष्टरोगाणां चिकित्सा । ‘शीतादे हृतरक्ते तु तोये नागरसर्षपान् । निष्क्वाथ्य त्रिफलाञ्चापि कुर्य्याद्गण्डूषधारणम् ॥ ‘कासीसलोध्रकृष्णामनःशिलासप्रियङ्गुतेजाह्वाः । एषां चूर्णं मधुयुक् शीतादे पूतिमांसहरम् ॥’ तेजाह्वा तेजबल्कल इति लोके । ‘तैलं घृतं वा वातघ्नं शीतादे संप्रशस्यते । * । ‘दन्तपुप्पुटके कार्य्यं तरुणे रक्तमोक्षणम् ॥ सपञ्चलवणः क्षारः सक्षौद्रः प्रतिसारणम् । शिरोविरेकश्च हितो नस्यं स्निग्धञ्च भोजनम् ॥ विस्राविते दन्तवेष्टे व्रणन्तु प्रतिसारयेत् । लोध्रपत्तङ्गमधुकलाक्षाचूर्णैर्मधुप्लुतैः ॥’ प्रतिसारयेत् अङ्गुल्या घर्षयेत् । पत्तङ्गं चोचकं इति लोके । ‘गण्डूषे क्षीरिणो योज्याः सक्षौद्रघृतशर्क्कराः । चलदन्तस्थैर्य्यकरं कार्य्यं बकुलचर्व्वणम् ॥ भद्रमुस्ताभयाव्योषविडङ्गारिष्टपल्लवैः । गोमूत्रपिष्टैर्गुटिकां छायाशुष्कां प्रकल्पयेत् तां निघाय मुखे शोथशूलदन्तातुरो नरः । नातःपरतरं किञ्चिच्चलदन्तस्य भेषजम् ॥’ भद्रमुस्तादिवटिका । ‘तुला घृतं नीलसहाचरस्य द्रोणाम्भसा संश्रपयेद्यथावत् । ततश्चतुर्भागरसेन तैलं पचेच्छनैरर्द्धपलप्रमाणैः ॥ कल्कैरनन्ताखदिरारिमेद- जङ्घाम्रयष्टीमधुकोत्पलानाम् । तत्तैलमाश्वेव धृतं मुखेन स्थैर्य्यं द्विजानां विदधाति सद्यः ॥ नीलसहाचरः नीलपुष्पकटरैया । अनन्ता दुरालभा तदलाभे यवासो ग्राह्यः । अरिमेदो दुर्गन्धखदिरः । सहाचराद्यतैलम् ॥ * ॥
‘शैशिरे हृतरक्ते तु लोध्रमुस्तारसाञ्जनैः । सक्षौद्रैः शस्यते लेपो गण्डूषे क्षीरिणो हिताः ॥ क्रियां परिदरे कुर्य्याच्छीतादोक्तां विचक्षणः । संशोध्योभयतः कायं शिरश्चोपकुशे तथा ॥ काकोडुम्बरिकापत्रैर्व्रणं विस्रावयेद्भिषक् । लवणैः क्षौद्रयुक्तैश्च सव्योषैः परिसारयेत् ॥ * ॥
‘शस्त्रेणोत्कृत्य वै दर्भं दन्तमूलानि शोधयेत् । ततः क्षारं प्रयुञ्जीत क्रियाः सर्व्वाश्च शीतलाः ॥ उद्धृत्याधिकदन्तन्तु ततोऽग्निमवचारयेत् । कृमिदन्तकवच्चात्र विधिः कार्य्यो विजानता ॥’ इयं खलिवर्द्धनस्य चिकित्सा ॥ * ॥
‘छित्त्वाधिमांसं सक्षौद्रैरेतैश्चूर्णैरुपाचरेत् । वचातेजोवतीपाठास्वर्ज्जिकायावशूकजैः ॥’ तेजोवती तेजवल्कलं स्वर्णजीवन्तीति च । ‘क्षौद्रद्बितीयापिप्पल्यः कवले चात्र कीर्त्तिताः । पटोलनिम्बत्रिफलाकषायश्चात्र धावने ॥’ * ॥
‘नाडीव्रणहरं कर्म्म दन्तनाडीषु कारयेत् । यद्दन्तमध्ये जायेत नाडीदन्तं तदुद्धरेत् ॥ छित्त्वा मांसानि शस्त्रेण यदि नोपरितो भवेत् । उद्धृत्य च दहेच्चापि क्षारेण ज्वलनेन वा ॥ भिनत्त्युपेक्षिते दन्ते हनूकास्थिगतं ध्रुवम् । समूलं दशनं तस्मादुद्धरेद्भग्नमस्थि च ॥ उद्धृते तूत्तरे दन्ते शोणितं प्रस्रवेदति । रक्ताभिषेकात् पूर्ब्बोक्ता घोरा रोगा भवन्ति हि ॥ काणः संजायते जन्तुरर्द्दितं तस्य जायते । चलमप्युत्तरं दन्तमतो नैवोद्धरेद् भिषक् ॥ धावनं जातिमदनस्वादुकण्टकखादिरैः ।” कशायैरितिशेषः । कषायैर्जातिमदनकटुकी-स्वादुकण्टकैः । ‘मञ्जिष्ठालोध्रखदिरषष्ट्याह्वैश्चापि यत् कृतम् । तैलं तत्साधितं तत्र हन्यात् दन्तगतां गतिम् ॥’ जात्यादिचतुष्टयस्य कषायेण मञ्जिष्ठादिचतुष्ट- यस्य च कषायेण तैलमिदं पचेत् । जातिः चमेली इति लोके । तस्याः पत्रं ग्राह्यम् । मदनो धुत्तुरस्तस्यापि पत्रमत्र ग्राह्यम् । कण्टकी बृहत्कटाइ तस्या मूलं ग्राह्यम् । स्वादुकण्टकोगोक्षुरः तस्य पञ्चाङ्गं ग्राह्यम् । जात्यादितैलम् ॥ * ॥
‘विद्रध्युक्तं विधिं युक्तं विदध्याद्दन्तविद्रधौ । शस्त्रकर्म्म नरस्तत्र कुशलेनैव कारयेत् ॥’ * ॥
अथ दन्तरोगाः । तत्र रोगाणां नामानि संख्याञ्चाह । ‘दालनः कथितः पूर्ब्बं कृमिदन्तक एव च । प्रोक्तो भञ्जनको दन्तहर्षो वै दन्तशर्क्करा ॥ कपालिकात्र कथिता श्यावदन्तक एव च । करालसंज्ञ इत्यष्टौ दन्तरोगाः प्रकीर्त्तिताः ॥’ तत्र दालनस्य लक्षणमाह । ‘दीर्य्यमाणेष्विव रुजा यत्र दन्तेषु जायते । दालनो नाम स व्याधिः सदागतिनिमित्तजः ॥’ कृमिदन्तकमाह । ‘कृष्णच्छिद्रचलस्रावी ससंरम्भो महारुजः । अनिमित्तरुजो वातात् स ज्ञेयः कृमिदन्तकः ॥’ ससंरम्भः दन्तमूलशोथयुक्तः । तत्रैव स्रावो बोद्धव्यः । अनिमित्तरुजः अवघटनादिनिमित्तं विनैव महारुजावान् ॥ * ॥
भञ्जनकमाह । ‘वक्त्रं वक्रं भवेद्यत्र दन्तभङ्गश्च जायते । कफवातकृतो व्याधिः स भञ्जनकसंज्ञकः ॥’ दन्तहर्षमाह । ‘शीतरूक्षप्रवाताम्लस्पर्शानामसहा द्बिजाः । यत्र स्युर्व्वातपित्ताभ्यां दन्तहर्षः स कीर्त्तितः ॥’ दन्तशर्करामाह । ‘मलो दन्तगतो यस्तु कफश्चानिलशोषितः । शर्करेव खरस्पर्शा सा ज्ञेया दन्तशर्करा ॥’ शर्क्करा सिकता ॥ * ॥
कपालिकामाह । ‘कपालेष्विव दीर्य्यत्सु दन्तेषु समलेषु च । कपालिकेति विज्ञेया दन्तच्छित् दन्तशर्क्करा ॥’ कपालानि मृण्मयघटादिघटकानि तेष्विव । समलेषु दन्तेषु मलसहितदन्तावयवेषु दीर्य्यत्सु या दन्तशर्क्करा सा कपालिकेति विज्ञेया । सा कपालिका दन्तच्छित् दन्तनाशिनी ॥ * ॥
श्यावदन्तकमाह । ‘योऽसृङ्मिश्रेण पित्तेन दग्धो दन्तस्त्वशेषतः । श्यावतां नीलतां वापि गतः स श्यावदन्तकः ॥’ दग्धः दग्ध इव ॥ * ॥
करालमाह । ‘शनैः शनैः प्रकुरुते यत्र दन्ताश्रितोऽनिलः । करालान् विकटान् दन्तान् स करालो न सिध्यति ॥’ करालान् भयानकान् । अयं सुश्रुतेनोक्तः । संग्रहकारेण गृहीतश्च ॥ * ॥
अथ दन्तरोगाणां चिकित्सा । ‘तैलं लाक्षारसं क्षीरं पृथक् प्रस्थमितं पचेत् । द्रव्यैः पलमितैरेतैः क्वाथैश्चापि चतुर्गुणैः ॥ लोघ्रकट्फलमञ्जिष्ठापद्मकेशरपद्मकैः । चन्दनोत्पलयष्ट्याह्वैस्तत्तैलं वदने धृतम् ॥’ कट्फलस्थाने पत्तङ्ग इति च पाठः । ‘दालनं दन्तचालञ्च दन्तमोक्षं कपालिकाम् । शीतादं पूतिवक्त्रञ्च विरुचिं विरसास्यताम् ॥ हन्यादाशु गदानेतान् कुर्य्याद्दन्तानपि स्थिरान् । लाक्षादिकमिदं तैलं दन्तरोगेषु पूजितम् ॥’ लाक्षाद्यतैलम् ॥ * ॥
‘जयेत् विस्रावणैः स्विन्नमचलं कृमिदन्तकम् । तथावपीडैर्व्वातघ्नैः स्नेहगण्डूषधारणैः ॥ भद्रदार्व्वादिवर्षाभूलेपैः स्निग्धैश्च भोजनैः । कृमिदन्तापहं कोष्णं हिङ्गु दन्तान्तरे स्थितम् ॥ बृहतीभूमिकदम्बीपञ्चाङ्गुलकण्टकारिकाक्वाथः । गण्डूषस्तैलयुतः कृमिदन्तकवेदनाशमनः ॥ नीली वायसजङ्घा कटुतुम्बी मूलमेकैकम् । सञ्चूर्ण्य दशनविधृतं दशनकृमिपातनं प्राहुः ॥ स्नेहानां कवलाः कोष्णाः सर्पिषस्त्रैवृतस्य च । निर्यूहाश्चानिलघ्नानां दन्तहर्षप्रमर्दनाः ॥’ त्रैवृतस्य सर्पिषः त्रिवृता पक्वस्य सर्पिषः कबल इत्यर्थः । ‘स्नैहिकोऽत्र हितो धूमो नस्यं स्नैहिकमेव च । पेया रसा यवाग्वश्च क्षीरसन्तानिकाघृतम् ॥ शिरोवस्तिहितश्चापि क्रमो यश्चानिलापहः ।’ अत्र दन्तहर्षे । ‘अच्छिद्रं दन्तमूलानि शर्क्करामुद्धरेद् भिषक् । लाक्षाचूर्णैर्मधुयुतैस्ततस्तां प्रतिसारयेत् ॥ दन्तहर्षक्रियां चात्र कुर्य्यान्निरवशेषतः । कपालिका कृच्छ्रतमा तत्राप्येषा क्रिया हिता ॥’ अत्र दन्तशर्क्करायाम् । एषा क्रिया दन्तहर्ष- क्रिया ॥ * ॥
‘फलान्यम्लानि शीताम्बु रूक्षान्नं दन्तधावनम् । तथातिकठिनं भक्ष्यं दन्तरोगी विवर्ज्जयेत् ॥’ अथ जिह्वारोगाः । तत्र जिह्वारोगाणां निदाननामसंख्याः प्राह । ‘वातजः पित्तजश्चापि कफजोऽलाससंज्ञकः । उपजिह्विका च गदा जिह्वायां पञ्च कीर्त्तिताः ॥’ तत्र वातजस्य लक्षणमाह । ‘जिह्वानिलेन स्फुटिता प्रसुप्ता भवेच्च शाकच्छदनप्रकाशा ।’ स्फुटिता मनाग्विदीर्णा । प्रसुप्ता रसानभिज्ञ- तया सुप्तेव । शाकच्छदनप्रकाशा शाको मरु- भूमिजो द्रुमस्तद्वत् कण्टकचिता ॥ * ॥
पित्तज- माह । ‘पित्तात् सदाहैरुपचीयते च दीर्घैः सरक्तैरपि कण्टकैश्च ॥’ अयं रोगो लोके जली इति ख्यातः ॥ * ॥
कफजमाह । ‘कफेन गुर्व्वी बहला चिता च मांसोच्छ्रयैः शाल्मलिकण्टकाह्वैः ।’ बहलाः स्थूलाः मांसोच्छ्रयैः मांसजकण्टकैः ॥ अलासमाह । ‘जिह्वातले यः श्वयथुः प्रगाढः सोऽलाससंज्ञः कफरक्तमूर्त्तिः । जिह्वां स तु स्तम्भयति प्रवृद्धो मूले च जिह्वा भृशमेति पाकम् ॥’ प्रगाढः प्रकर्षेण गाढो दारुणः । कफरक्तमूर्त्तिः कफरक्ताभ्यां मूक्तिर्यस्य कफरक्तज इत्यर्थः । जिह्वास्तम्भेन वायुरप्यत्र बोद्धव्यः । भृशपाकेन पित्तञ्च । अतस्त्रिदोषोऽयमसाध्यत्वञ्चास्य ॥ * ॥
उपजिह्विकामाह । ‘जिह्वाग्ररूपश्वयथुर्हि जिह्वा- मुत्ताम्य जातः कफपित्तयोनिः । प्रसेककण्डूपरिदाहयुक्तः प्रकथ्यतेऽसादुपजिह्विकेति ॥’ जिह्वाग्ररूपो जिह्वाग्राकृतिः ॥ * ॥
अथ जिह्वारोगाणां चिकित्सा । ‘जिह्वागतविकाराणां शस्तं शोणितमोक्ष- णम् । गुडूचीपिप्पलीनिम्बकवलः कटुभिः सुखः ॥ ओष्ठप्रकोपेऽनिलजे यदुक्तं प्राक् चिकित्सितम् । कण्ठजेष्वनिलोत्थेषु तत्कार्य्यं भिषजा खलु ॥ पित्तजे परिघृष्टे तु निःसृते दुष्टशोणिते । प्रतिसारणगण्डूषनस्यानि मधुरं हितम् । कण्टकेषु कफोत्थेषु लिखितेष्वसृजः क्षये ॥ पिप्पल्यादिर्मधुयुतः कार्य्यस्तु प्रतिसारणे ॥ उपजिह्वान्तु संलिख्य क्षारेण प्रतिसारयेत् । शिरोविरेकगण्डूषधूमैश्चैनामुपाचरेत् ॥ व्योषक्षाराभयावह्निचूर्णमेतत् प्रघर्षणम् । उपजिह्वाप्रशान्त्यर्थमेभिस्तैलञ्च पाचयेत् ॥’ अथ तालुरोगाः । तत्र तालुरोगाणां नामानि संख्याञ्चाह । ‘गलशुण्डी तुण्डिकेर्प्पध्रुषः कच्छप एव च । ताल्वर्व्वुदश्च कथितो मांससंघात एव च । तालुपुप्पुटनामा च तालुशोषस्तथैवच ॥ तालुपाकश्च कथितास्तालुरोगा अमी नव ॥’ तत्र गलशुण्डीलक्षणमाह । ‘श्लेष्मासृग्भ्यां तालुमूलात् प्रवृद्धो दीर्घः शोथो ध्मातवस्तिप्रकाशः । तृष्णाकासश्वासजुष्टं वदन्ति वैद्या व्याधिं कण्ठशुण्डीति नाम्ना ॥ ध्मातवस्तिप्रकाशः वातपूरितचर्म्मपुटतुल्यः ॥ * ॥
तुण्डिकेरीमाह । ‘शोथः स्थूलस्तोददाहप्रपाकी प्रागुक्ताभ्यां तुण्डिकेरी मता तु ।’ प्रागुक्ताभ्यां श्लेष्मासृग्भ्याम् । तुण्डिकेरी वन- कार्पासीफलं तत्तुल्येति ॥ * ॥
अध्रुषमाह । ‘शोथस्तन्द्रा लोहितः शोणितोत्थो ज्ञेयोऽध्रुषः सज्वरस्तीवरुक् च ।’ कच्छपमाह । ‘कूर्म्मोत्सन्नो वेदनोऽशीघ्रजन्मा रोगो ज्ञेयः कच्छपः श्लेष्मणा स्यात् ।’ कूर्म्मोत्सन्नः मध्ये प्रोच्चं प्रान्ते नतः ॥ * ॥
ताल्वर्व्वदमाह । ‘पद्माकारं तालुमध्ये तु शोथं विद्याद्रक्तादर्व्वुदं पित्तलिङ्गम् ।’ पद्माकारं पद्मकर्णिकाकेशरैरिव पार्श्वतो दीर्घ- मांसाङ्कुरैर्व्वेष्टितम् ॥ * ॥
मांससंघातमाह । ‘दुष्टं मांसं श्लेष्मणा नीरुजञ्च ताल्वन्तस्थं मांससंघातमाह ।’ तालुपुप्पुटमाह । ‘नीरुक् स्थायी कोलमात्रः कफात्मा मेदोयुक्तः पुप्पुटस्तालुदेशे ॥’ तालुशोषमाह । ‘शोषोऽत्यर्थं दीर्य्यते त्तापि तालु श्वासो वातात्तालुशोषोऽयमुक्तः ।’ तालुपाकमाह । ‘पित्तं कुर्य्यात् पाकमत्यर्थघोरं तालुन्येनं तालुपाकं वदन्ति ॥’ अथ तालुरोगाणां चिकित्सा । ‘कुष्ठोषणवचासिन्धुकणापाठाप्लवैः सह । सक्षौद्रैर्भिषजा कार्य्यं गलशुण्डीप्रघर्षणम् ॥’ प्लवः केवचीमोथा गुडतची इति च लोके । ‘अङ्गुष्ठाङ्गुलिसन्दंशेनाकृष्य गलशुण्डिकाम् । छेदयेन्मण्डलाग्रेण जिह्वोपरि तु संस्थिताम् ॥’ मण्डलाग्रेण शस्त्रविशेषेण । ‘अतिच्छेदात् स्रवेद्रक्तं ततो हेतोर्म्रियेत च । हीनच्छेदाद्भवेच्छोथो लालास्रावो भ्रम- स्तथा ॥ तस्मात् वैद्यः प्रयत्नेन दृष्टकर्म्मा विशारदः । गलशुण्डीं तु संछिद्य कुर्य्यात् प्राप्तामिमां क्रियाम् ॥ पिप्पल्यतिविषाकुष्ठवचामरिचनागरैः । क्षौद्रयुक्तैः सलवणैस्ततस्तां प्रतिसारयेत् ॥ वचामतिविषापाठारास्नाकटुकरोहिणीः । निष्क्वाथ्य पिचुमर्द्दञ्च कवलं तत्र कारयेत् ॥ तुण्डिकेर्य्यध्रुषे कूर्म्मे संघाते तालुपुप्पुटे । एष एव विधिः कार्य्यो विशेषः शस्त्रकर्म्मणि ॥ तालुपाके तु कर्त्तव्यं विधानं पित्तनाशनम् । स्नेहस्वेदौ तालुशोषे विधिश्चानिलनाशनः ॥’ अथ गलरोगाः । तत्र गलरोगाणां नामानि संख्याञ्चाह । ‘रोहिणी पञ्चधा प्रोक्ता कण्ठशालूक एव च । अधिजिह्वश्च बलयोऽलासनामैकवृन्दकः ॥ ततो वृन्दः शतघ्नी च गिलायुः कण्ठविद्रधिः । गलौघः प्रस्वरघ्नश्च मांसतानस्तथैव च ॥ विदारी कण्ठदेशे तु रोगा अष्टादश स्मृताः ॥’ तत्र पञ्चानामपि रोहिणीनां सामान्यसंप्राप्ति- माह । ‘गलेऽनिलः पित्तकफौ च मूर्च्छितौ प्रदूष्य मांसञ्च तथैव शोणितम् । गलोपसंरोधकरैस्तथाङ्कुरै- र्निहन्त्यसून् व्याधिरयं हि रोहिणी ॥’ अनिलः मूर्च्छितः प्रवृद्धः । पित्तकफौ च मूर्च्छितौ पित्तं वा मूर्च्छितं कफो वा मूर्च्छितः । ननु त्रयोऽपि मूर्च्छिताः पृथग्दोषजाया अवि- वक्षमाणत्वात् ॥ * ॥
तस्य वातजाया लक्षण- माह । ‘जिह्वासमन्ताद्भृशवेदनास्तु मांसाङ्कुराः कण्ठनिरोधनाः स्युः । सा रोहिणी वातकृता प्रदिष्टा वातात्मकोपद्रवगाढयुक्ता ॥’ समन्तात् जिह्वायाः सर्व्वतः । वातात्मकोपद्रव- गाढयुक्ता स्तम्भादिभिरतिशयेन युक्ता ॥ * ॥
पित्तजामाह । ‘क्षिप्रोद्गमाक्षिप्रविदाहपाका तीव्रज्वरा पित्तनिमित्तजाता ।’ श्लेष्मजामाह । ‘स्रोतोनिरोधिन्यपि मन्दपाका गुर्व्वी स्थिरा सा कफसम्भवा तु ।’ स्रोतोऽत्र कण्ठस्रोतः ॥ * ॥
सन्निपातजामाह । ‘गम्भीरपाकिन्यनिवार्य्यवीर्य्या त्रिदोषलिङ्गा त्रिभवा भवेत् सा ।’ रक्तजामाह । ‘स्फोटैश्चिता पित्तसमानलिङ्गा साध्या प्रदिष्टा रुधिरात्मिका तु ।’ रक्तजेतरा संहारकत्वावधिमाह । ‘सद्यस्त्रिदोषजा हन्ति त्र्यहात् कफसमुद्भवा । पञ्चाहात् पित्तसंभूता सप्ताहात् पवनोत्थिता ॥’ कण्ठशालूकमाह । ‘कोलास्थिमात्रः कफसम्भवो यो ग्रन्थिर्गले कण्टकशूकभूतः । खरः स्थिरः शस्त्रनिपातसाध्य- स्तं कण्ठशालूकमिति ब्रुवन्ति ॥’ कण्टकशूकभूतः कण्टकवच्छूकवच्च वेदनाजनकः । अधिजिह्वामाह । ‘जिह्वाग्ररूपः श्वयथुः कफात्तु जिह्वोपरिष्टादसृजैव मिश्रात् । ज्ञेयोऽधिजिह्वः खलु रोग एष विवर्ज्जयेदागतपाकमेनम् ॥’ असृजा मिश्रादेवेत्यन्वयः ॥ * ॥
बलयमाह । ‘बलाश एवायतमुन्नतञ्च शोथं करोत्यन्नगतिं निवार्य्य । तं सर्व्वथैवाप्रतिवार्य्यवीर्य्यं विवर्ज्जनीयं बलयं वदन्ति ॥’ अलासमाह । ‘गले तु शोथं कुरुतः प्रवृद्धौ श्लेष्मानिलौ श्वासरुजोपपन्नम् । मर्म्मच्छिदं दुस्तरमेतदाहु- रलाससंज्ञं भिषजो विकारम् ॥’ मर्म्मच्छिदं हृदयमर्म्मणि छेदेनेव वेदनाजनकम् ॥ एकवृन्दमाह । ‘वृत्तोन्नतोऽन्तः श्वयथुः सदाहः सकण्डुरोऽपाक्यमृ दुर्गुरुश्च । नाम्नैकवृन्दः परिकीर्त्त्यतेऽसौ व्याधिर्ब्बलाशः क्षतजप्रसूतः ॥’ अन्तः गलमध्ये । अपाकी ईषत्पाकी । अमृदुः ईषन्मृदुः ॥ * ॥
वृन्दमाह । ‘समुन्नतं वृन्दममन्ददाहं तीव्रज्वरं वृन्दमुदाहरन्ति । तच्चापि पित्तक्षतजप्रकोपाद्- विद्यात् सतोदं पवनात्मकन्तु ॥’ शतघ्नीमाह । ‘वर्त्तिर्घना कण्ठनिरोघिनी तु चितातिमात्रं पिशितं प्ररोहैः । अनेकरुक् प्नाणहरी त्रिदोषा ज्ञेया शतघ्नीसदृशी शतघ्नी ॥’ घना कठिना । अनेकरुक् वातपित्तकफजतोद- दाहकण्ड्वादियुक्ता । शतघ्नीसदृशी लौहकण्टक- संछन्ना शतघ्नी महती शिला तत्तुल्या यतः प्राणहरी ॥ * ॥
गिलायुमाह । ‘ग्रन्थिर्गले त्वामलकास्थिमात्रः स्थिरोऽल्परुक् स्यात् कफरक्तमूर्त्तिः । संलक्ष्यते सक्तमिवासितञ्च स शस्त्रसाध्यस्तु गिलायुसंज्ञः ॥’ गलविद्रधिमाह । ‘सर्व्वं गलं व्याप्य समुत्थितो यः शोथो रुजः सन्ति च यत्र सर्व्वाः । स सर्व्वदोषैर्गलविद्रधिस्तु तस्यैव तुल्यः खलु सर्व्वजस्य ॥’ गलौघमाह । ‘शोथो महान् यस्तु गलावरोधी तीव्रज्वरो वायुगतेर्निहन्ता । कफेन जातो रुधिरान्वितेन गले गलौघः परिकीर्त्त्यतेऽसौ ॥’ वायुगतेर्निहन्ता उदानवायुगतिरोधकः ॥ * ॥
स्वरघ्नमाह । ‘यस्ताम्यमानः श्वसिति प्रसक्तं भिन्नस्वरः शुष्कविमुक्तकण्ठः । कफोपदिग्धेष्वनिलायनेषु ज्ञेयः स रोगः श्वसनात् स्वरघ्नः ॥’ ताम्यमानस्तमः पश्यन् । शुष्कविमुक्तकण्ठः शुष्को विमुक्तोऽस्वाधीनः कण्ठो यस्य सः । अखाधीनता भुक्तं गिलितुमशक्यत्वात् । अनि- नायनेषु वायुवर्त्मसु श्वसनात् वातात् ॥ * ॥
मांसतानमाह । ‘प्रतानवान् यः श्वयथुः सुकष्टो गलोपरोधं कुरुते क्रमेण । स मांसतानः कथितावलम्बी प्राणप्रणुत् सर्व्वकृतो विकारः ॥’ प्रतानवान् विस्तारवान् । सुकष्टः अतिशयितं कष्टं यत्र सः ॥ * ॥
विदारीमाह । ‘सदाहतोदं श्वयथुं सुताम्र- मन्तर्गले पूतिविशीर्णमांसम् । पित्तेन विद्याद्बदने विदारीं पार्श्वं विशेषात् स तु येन शेते ॥’ पार्श्वे विशेषात् स तु येन शेते स पुरुपो येन पाश्वेन विशेषाद्बाहुल्येन शेते तस्मिन् पार्श्वे सा विदारी भवति इत्यर्थः ॥ * ॥
अथ गलरोगाणां चिकित्सा । ‘रोहिणीनान्तु साध्यानां हितं शोणितमोक्ष- णम् । वमनं धूमपानञ्च गण्डूषो नस्यकर्म्म वा ॥ वातजान्तु हृते रक्ते लवणैः प्रतिसारयेत् । सुखोष्णान् स्नेहगण्डूषान् धारयेच्चाप्यभीक्ष्णशः ॥ विस्राव्य पित्तसंभूतां सिताक्षौद्रप्रियङ्गुभिः । घर्षयेत् कवलो द्राक्षापरूषैः क्वथितैर्हितः ॥ आगारधूमकटुकैः कफजां प्रतिसारयेत् ॥’ आगारधूम झुल इति लोके । कटुकानि शुण्ठी- पिप्पलीमरिचानि । ‘श्वेताविडङ्गदन्तीषु तैलं सिद्धं ससैन्धवम् । नस्यकर्म्मणि दातव्यं कवलें च कफोदये ॥’ श्वेता अपराजिता । ‘पित्तवत् साधयेद्वैद्यो रोहिणीं रक्तसम्भवाम् । विस्राव्य कण्ठशालूकं साधयेत्तुण्डिकेरिवत् ॥ एककालं यवान्नं वा भुञ्जीत स्निग्धमल्पशः । उपजिह्वकवच्चापि साधयेदधिजिह्वकम् ॥ एकवृन्दन्तु विस्राव्य विधिं शोधनमाचरेत् । एकवृन्दमिव प्रायो वृन्दञ्च समुपाचरेत् ॥ गिलायुश्चापि यो व्याधिस्तञ्च शस्त्रेण साधयेत् । अमर्म्मस्थं सुसम्पक्वं छेदयेत् गलविद्रधिम् ॥’ अथ सामान्यानां कण्ठरोगाणां चिकित्सा । ‘कण्ठरोगेष्वसृङ्मोक्षैस्तीक्ष्णैर्नस्यादिकर्म्मभिः । चिकित्सकश्चिकित्सान्तु कुशलोऽत्र समाचरेत् ॥ क्वाथं दद्याच्च दार्व्वीत्वङ्निम्बतार्क्ष्यकलिङ्गजम् । हरीतकीकषायो वा हितो माक्षिकसंयुतः ॥ कटुकातिविषादारुपाठामुस्ताकलिङ्गकाः । गोमूत्रक्वथिताः पीताः कण्ठरोगविनाशनाः ॥ मृद्वीकाकटुकाव्योषदार्व्वीत्वक्त्रिफलाघनम् । पाठां रसाञ्जनं दारु तेजोह्वेति सुचूर्णितम् ॥ क्षौद्रयुक्तं विधातव्यं गलरोगे महौषधम् । योगास्त्वेते त्रयः प्रोक्ता वातपित्तकफापहाः ॥ यवाग्रजं तेजवतीञ्च पाठां रसाञ्जनं दारु निशां सकृष्णाम् । क्षौद्रेण कुर्य्यात् गुटिकां मुखेन तां धारयेत् सर्व्वगलामयेषु ॥’ अथ समस्तमुखरोगाः । तत्र तेषां निदानं संख्याञ्चाह । ‘पृथग्दोषैस्त्रयो रोगाः समस्तमुखजाः स्मृताः ।’ तत्र वातिकस्य लक्षणञ्चाह । “स्फोटैः सतोदैर्व्वदनं समन्ताद्- यत्राचितं सर्ब्बसरः सवातात् ॥ * ॥
पैत्तिकमाह । ‘रक्तैः सदाहैः पिडकैः सुपीतै- र्यत्राचितं चापि स पित्तकोपात् ॥’ * ॥
श्लैष्मिकमाह । ‘अवेदनैः कण्डुयुतैः सवर्णै र्यत्राचितं चापि स वै कफेन ।’ अवेदनैः ईषद्वेदनैः । यत उक्तं सुश्रुतेन । अल्पवेदनैरिति ॥ * ॥
मुखरोगेष्वसाध्यानाह । ‘ओष्ठप्रकोपे वर्ज्याः स्युर्मांसरक्तत्रिदोषजाः । दन्तवेष्टेषु वर्ज्यौ तु त्रिलिङ्गगतिशौषिरौ ॥’ त्रिलिङ्गगतिः त्रिदोषजा नाडी । महाशौषि- रश्च । ‘दन्तेषु च न सिध्यन्ति स्यावदालनभञ्जनाः । जिह्वारोगेष्वालसस्तु तालुजेष्ववंदन्तथा ॥ स्वरघ्नो बलयो वृन्दो बलाशः स हि दारुणः । गलौघो मांसतानश्च शतघ्नी रोहिणी गले ॥ असाध्याः कीर्त्तिता ह्मेते रोगा दश नवो- त्तराः । तेषु चापि क्रियां वैद्यः प्रत्याख्याय समाचरेत् ॥’ अथ समस्तमुखरोगाणां चिकित्सा । ‘वातात् सर्व्वसरं चूर्णैर्लवणैः प्रतिसारयेत् । तैलं वातहरैः सिद्धं हितं कवलनस्ययोः ॥ * ॥
पित्तात्मके सर्व्वसरे शुद्धकायस्य देहिनः । सर्व्वपित्तहरः कार्य्यो विधिर्मधुरशीतलः ॥ * ॥
प्रतिसारणगण्डूषधूमसंशोधनानि च । कफात्मके सर्व्वसरे क्रमं कुर्य्यात् कफापहम् ॥ * ॥
मुखपाके सिरावेधः शिरसश्च विरेचनम् । मधुमूत्रघृतक्षीरैः शीतैश्च कवलग्रहः ॥ १ ॥ जातीपत्रामृताद्राक्षायासदार्व्वीफलत्रिकैः । क्वाथः क्षौद्रयुतः शीतो गण्डूषो मुखपाकनुत् ॥ २ ॥ कार्य्यञ्च बहुधा नित्यं जातीपत्रस्य चर्व्वणम् । कृष्णजीरककुष्ठेन्द्रयवचर्व्वणतस्त्र्यहात् । मुखपाकव्रणक्लेददौर्गन्ध्यमुपशाम्यति ॥ ३ ॥ पटोलनिम्बजम्बाम्रमालतीनवपल्लवैः । पञ्चपल्लवजः श्रेष्ठः कषायो मुखधावने ॥ ४ ॥ पञ्चपल्लवजः क्वाथस्त्रिफलासम्भ वोऽथवा । मुखपाके प्रयोक्तव्यः सक्षौद्रो मुखधावने ॥ ५ ॥ स्वरसः क्वथितो दार्व्व्या घनीभूतो रसक्रिया । सक्षौद्रा मुखरोगासृग्दोषनाडीव्रणापहा ॥ ६ ॥ सप्तच्छदोशीरपटोलमुस्त- हरीतकीतिक्तकरोहिणीभिः । यष्ट्याह्वराजद्रुमचन्दनैश्च क्वाथं पिबेत् पाकहरं मुखस्य ॥ ७ ॥’ राजद्रुमः धनवहेरा इति लोके । ‘तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च । क्षौद्राज्यदिग्धकल्कस्य गण्डूषो मुखपाकनुत् ॥ ८ ॥ आस्वादिता सकृदपि मुखगन्धं सकलमपनयति । त्वग्वीजपूरफलजा पवनमबाध्यञ्च नाशयति ॥ ९ ॥ हरिद्रां निम्बपत्राणि मधूकं नीलमुत्पलम् । तैलमेभिर्व्विपक्तव्यं मुखपाकहरं परम् ॥ १० ॥ यष्टीमधुपलमेकं त्रिंशन्नीलोत्पलस्य तैलस्य । प्रस्थं तद्द्विगुणपयोविधिना पक्वं तु नस्येन ॥ निशि वदनस्य स्रावं क्षपयति गात्रस्य दोष- संघातम् । कचखर्व्वत्वमवश्यं क्रमशोऽभ्यङ्गेन जन्तूनाम् ॥ ११ इति मुखरोगाधिकारः । इति भावप्रकाशः ॥ * ॥
अपि च । तण्डूलीयकगोक्षूरमूलं पीतं पयोऽन्वितम् । कामलादिहरं प्रोक्तं मुखरोगहरं तथा ॥ १२ ॥ शुष्कमूलकशुण्ठीनां क्षारो हिङ्गुलनागरम् । शुष्कं चतुर्गुणं दद्यात्तैलमेतैर्व्विपाचयेत् ॥ बाधिर्य्यं कर्णशूलञ्च पूयस्रावश्च कर्णयोः । पूरणादस्य तैलस्य कृमयः कर्णयोः खिलाः ॥ क्षिप्रं विनाशमायान्ति शशाङ्ककृतशेखर ! । क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥ १३ ॥’ इति गारुडे १८८ । १९८ अध्यायौ ॥ (तथाचास्य सलक्षणचिकित्सितम् । “मुखामये मारुतजे तु शोष- कार्कश्यरौक्ष्याणि चलारुजश्च । कृष्णारुणं निष्पतनं सुशीतं प्रस्रंसनस्पन्दनतोदभेदाः ॥ तृष्णाज्वरस्फोटकतालुदाहा- धूमायनञ्चाप्यवदीर्णता च । पित्तात् समूर्च्छा विविधारुजश्च वर्णाश्च शुक्लारुणवर्णवर्ज्ज्याः ॥ कण्डुर्गुरुत्वं सितविज्जलत्वं स्नेहोऽरुचिर्जाड्यकफप्रसेकौ । उत्क्लेशमन्दानिलता च तन्द्रा रुजश्च मन्दाः कफवक्त्ररोगे ॥ सर्व्वाणि रूपाणि तु वक्त्ररोगे भवन्ति यस्मिन् स तु सर्व्वजः स्यात् । संस्थानदूष्याकृतिनामभेदा- चैते चतुःषष्टिविधा भवन्ति ॥ शालाक्यतन्त्रे विहितानि तेषां निमित्तरूपाकृतिभेषजानि । यथाप्रदेशन्तु चतुर्व्विधस्य क्रियां प्रवक्ष्यामि मुखामयस्य ॥” इति मुखरोगः ॥ * ॥
‘शुक्ततिक्तकटुक्षौद्रकषायैः कवलग्रहः । धूमः प्रधमनं शुद्धिरधश्छर्द्दनलङ्घनम् ॥ भोज्यञ्च मुखरोगेषु यथास्वन्दोषनुद्धितम् । पिप्पल्यगुरुदार्व्वीत्वग् यवक्षारो रसाञ्जनम् ॥ पाठां तेजोवतीं पथ्यां समभागं सुचूर्णितम् । मुखरोगेषु सर्व्वेषु सक्षौद्रं तद्विधारयेत् ॥ सीधुमाधवमाध्वीकैः श्रेष्ठोऽयं कवलग्रहः । तेजोह्वामभयामेलां समङ्गां कटुकां घनम् । पाठां ज्योतिष्मतीं लोघ्रं दार्व्वीं कुष्ठञ्च चूर्णयेत् । दन्तानां घर्षणञ्चैव स्रावकण्डूरुजापहम् ॥’ ‘गृहधूमो यवक्षारपाठाव्योषं रसाञ्जनम् । तेजोह्वा त्रिफला लोध्रं चित्रकञ्चेति चूर्णितम् ॥ सक्षौद्रं धारयेदेतत् गलरोगविनाशनम् ॥’ इति कालकचूर्णम् ॥ * ॥
मनःशिला यवक्षारो हरितालं ससैन्धवम् । दार्व्वीत्वक् चेति तच्चूर्णं माक्षिकेण समायुतम् ॥ मूर्च्छितं घृतमण्डेन कण्ठरोगेषु धारयेत् । मुखरोगेषु च श्रेष्ठं पीतकं नामकीर्त्तितम् ॥’ इति पीतकचूर्णम् ॥ * ॥
‘कटुकातिविषापाठा दार्व्वीमुस्तकलिङ्गकाः । गोमूत्रक्वथिताः पेयाः कण्ठरोगविनाशनाः ॥ स्वरसः क्वथितो दार्व्व्या घनीभूतीरसक्रिया । सक्षौद्रमुखरोगासृग्दोषनाडीव्रणापहा ॥ तालुशोषे त्वतृष्णास्य सर्पिरौत्तरभक्तिकम् ॥ लावणं मधुराः स्निग्धाः शीताश्वैव रसा हिताः । मुखपाके शिराकर्म्म शिरःकायविरेचनम् । मूत्रतैलघृतक्षौद्रक्षीरैश्च कवलग्रहः ॥ सक्षौद्रास्त्रिफलापाठा मृद्वीकाजातिपल्लवाः । कषायतिक्तकाः शीताः क्वाथाश्च मुखधावनाः । तुलां खदिरसारस्य द्विगु



Correction: