वाचस्पत्यम्
मुखाग्नि || पु० मुखमेवाग्नितुल्यं शापदानेन दाहकत्वात् यस्य । १ विप्रे कर्म० वडवामुखजे २ दावानले च शब्दमा० ।
शब्दकल्पद्रुमः
मुखाग्निः || पुं, (मुखं मुख्योऽग्निः ।)
दावाग्निः । यथा, —
“हेमकेलिर्द्वयोश्चाथ मृदाकुः स्याद्दवानलः । मुखोल्का भूतसश्चारी मुखाग्निर्भरघस्मरः ॥” इति शब्दमाला ॥ शवमुखे दन्तवह्निः । इति लोके । शास्त्रे तु शिरःस्थाने । यथा, —
“देवाश्चाग्निमुखाः सर्व्वे गृहीत्वा तु हुता- शनम् । गृहीत्वा पाणिना चैव मन्त्रमेतदुदीरयेत् ॥ कृत्वा तु दुष्कृतं कर्म्म जानता वाप्यजानता । मृत्युकालवशं प्राप्य नरं पञ्चत्वमागतम् ॥ धर्म्माधर्म्मसमायुक्तं लोभमोहसमावृतम् । दहेयं सर्व्वगात्राणि दिव्यान् लोकान् स गच्छतु ॥ एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणम् । ज्वलमानं तथा वह्निं शिरः स्थाने प्रदापयेत् ॥ चातुर्व्वर्णेषु संस्थानमेवं भवति पुत्त्रिके ! ।” इति शुद्धितत्त्वम् ॥