वाचस्पत्यम्
मुखास्त्र || पु० मुखमेवास्त्रं यस्य । कर्कटे त्रिका० ।
शब्दकल्पद्रुमः
मुखास्त्रः || पुं, (मुखं अस्त्रमिवास्य ।) कर्क्कटः । इति त्रिकाण्डशेषः ॥