संस्कृत-शब्दकोशः

मुग्धा मुचकुन्द

मुच

वाचस्पत्यम्

मुच ||‍ त्यागे चुरा० उ० सक० सेठ् । मोचयति ते अमूमुचत्—त


वाचस्पत्यम्

मुच ||‍ त्यागे तु० मुचादि० उभ० सक० अनिट् । मुञ्चति—ते ऋदित् अमुचत् अमुक्त । कर्मकर्त्तरि अकर्मकः “मुच्यते सर्वपापेभ्यः” इति पुराणम् ।


वाचस्पत्यम्

मुच ||‍ दम्भे शाठ्ये भ्वा० आत्म० सक० सेट् । मोचते अमोचिष्ट इदिदप्ययम् तत्रार्थे । मुञ्चते ।


शब्दकल्पद्रुमः

मुच || इ ङ कल्कने । दम्भे । शाठ्ये । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०- सेट् ।)
द्बौ पञ्चमस्वरिणौ । इ मुञ्च्यते । ङ मुञ्चते ङ मोचते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मुच || ऌ श प ञ औ मोक्षे । इति कविकल्पद्रुमः ॥ (तुदा०-उभ०-सक०-बन्धनरहितीभावे अक०- अनिट् ।)
मोक्षस्त्यागः । ऌ अमुचत् । श प ञ मुञ्चति मुञ्चते धनं दाता । बन्धन- रहितीभावे अकर्म्मकोऽयम् । आलानान्मुक्तो गजः कर्त्तरि क्तः । एवं पापान्मुक्त इत्यादौ पापबन्धनान्मुक्त इत्यर्थः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मुच || क मोक्षे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
क मोचयति । मोक्षस्त्यागः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मुच || ङ कल्कने । दम्भे । शाठ्ये । इति कवि- कल्पद्रुमः ॥ (भ्वा०-आत्म०-अक०- सेट् ।)
द्बौ पञ्चमस्वरिणौ । इ मुञ्च्यते । ङ मुञ्चते ङ मोचते । इति दुर्गादासः ॥



Correction: