शब्दकल्पद्रुमः
मुचिरः || त्रि (मुञ्चति धनादिकं ददातीति । मुच् + “इषिमदिमुदिखिदिच्छिदिभिदिमन्दि- चन्दितिमिमिहिमुहिमुचीति ।” उणा० १ । ५२ । इति किरच् ।)
दाता । इति त्रिकाण्ड- शेषः ॥
शब्दकल्पद्रुमः
मुचिरः || पुं, (मुच् + किरच् ।)
धर्म्मः । वायुः । देवता । इति संक्षिप्तसारोणादिवृत्तिः ॥