संस्कृत-शब्दकोशः

मुञ्जातक मुठ

मुट

वाचस्पत्यम्

मुट ||‍ क्षोदे वा चु० उभ० पक्षे भ्वा० पर० सक० सेट् । मोद- यति ते मोटति अमूमुटत् त अमोटीत् ।


वाचस्पत्यम्

मुट ||‍ मर्दने भ्वा० पर० सक० सेट् इदित् । मुण्टति अमुण्टीत् । मुण्ट्यते ।


शब्दकल्पद्रुमः

मुट || इ मर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०- सक०-सेट् ।)
पञ्चमस्वरी । इ मुण्ट्यते । मर्द्दो मर्द्दनम् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मुट || कि क्षुदि । इति कविकल्पद्रुमः ॥ (चुरा० पक्षे भ्वा०-सक०-सेट् ।)
क्षुदि चूर्णीकरणे । कि मोटयति तण्डुलं शिला । यस्तु दुर्गञ्च मोटतीति हलायुधः ॥


शब्दकल्पद्रुमः

मुट || शि आक्षेपे च । इति कविकल्पद्रुमः ॥ (तुदा०-पर०-सक०-सेट् ।)
पवर्गशेषादिः । शि मुटति अमुठीत् मुमोट । चकारात् क्षुदि च । मुटति द्बिषां दर्पं य इति हलायुधः । इति दुर्गादासः ॥



Correction: