संस्कृत-शब्दकोशः

मुठ मुण

मुड

वाचस्पत्यम्

मुड ||‍ केशादिच्छेदे मर्दने च भ्वा० पर० सक० सेट् इदित् । मुण्डति अमुण्डीत् ।


वाचस्पत्यम्

मुड ||‍ मज्जने भ्वा० आ० अक० सेट् इदित् । मुण्डते अमुण्डिष्ट ।


शब्दकल्पद्रुमः

मुड || इ ङ मग्ने । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
पवर्गशेषादिः । पञ्चम- स्वरी । मग्नमिति मज्जधातोः क्ते रूपं मज्जन- मित्यर्थः । इ मुण्ड्यते । ङ मुण्डते प्रस्तरो जले । चतुर्भुजस्तु मार्ज्जन इति पठित्वा मार्ज्जनं शुद्धिरिति व्याख्याय मुण्डते जलेन गात्रं लोक इत्युदाहृतवान् । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मुड || इ छिदि । मर्द्दे । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-सक०-सेट् ।)
पञ्चमस्वरी । इ मुण्ड्यते । छेद इह लोमच्छेद एव । मुण्डति मुण्डं नापितः । लोमरहितं करोतीत्यर्थः । इति गुर्गादासः ॥



Correction: