वाचस्पत्यम्
मुण्डशालि || पु० मुण्डः शूकशून्यः शालिः । निःशूके शालि भेदे राजनि० ।
शब्दकल्पद्रुमः
मुण्डशालिः || पुं, (मुण्डो मुण्डित इव शालिः ।)
शालिभेदः । तत्पर्य्यायः । मुण्डनकः २ निःशूकः ३ अशूककः ४ । अस्य गुणाः । त्रिदोषनाशित्वम् । मधुराम्लत्वम् । बलप्रदत्वम् । रुचिकारित्वम् । दीपनत्वम् । पथ्यत्वम् । मुख- जाड्यरुजापहत्वञ्च । इति राजनिर्घण्टः ॥