वाचस्पत्यम्
मुण्डिन् || पु० मुण्डयति मुडि—णिच्—णिनि । नापिते अमरः ।
शब्दकल्पद्रुमः
मुण्डी || [न्] पुं, (मुण्डयति केशान् वपति इति । मुण्ड + णिनिः ।)
नापितः । इत्यमरः । २ । १० । १० ॥ (योगाचार्य्यविशेषः । यथा, शिव- पुराणे वायुसंहितायाम् । २ । १० । ५ — ६ ॥ ‘महाकालश्च शूली च दण्डी मुण्डी सएव च ।’ इत्यादावारभ्य । अष्टाविंशतिसंख्याता योगाचार्य्या युगक्रमात् ।’ सम्पादितकेशच्छेदनः । यथा, महाभारते । १३ । १४ । ३७४ । “दिनेऽष्टमे तु विप्रेण दीक्षितोऽहं यथाविधि । दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली- कृतः ॥”)