संस्कृत-शब्दकोशः

मुर् मुर्भिणी

मुर्च्छ

वाचस्पत्यम्

मुर्च्छ ||‍ मोहे वृद्धौ च भ्वा० पर० सक० सेट् । मूर्च्छति अमूर्च्छीत् । आदित् भावे क्त । मूर्तम् मूर्च्छितम् ।


शब्दकल्पद्रुमः

मुर्च्छ || आ मोहे । उच्छ्राये । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-सेट् ।)
पवर्गशेषादिः । ह्रस्वी । तेन क्विपि राल्लोप इति छलो मुरौ मुरः । आ मूर्च्छितं मूर्त्तं तेन । मोहो ज्ञान- रहितीभावः । उच्छ्रायो वृद्धिः । मूर्च्छति रोगी । मुमूर्च्छ संख्यं रामस्य समानव्यसने हराविति रघुः । इति दुर्गादासः ॥



Correction: