वाचस्पत्यम्
मुष्क || पु० मुष—कक् । १ पुरुषचिह्नभेदे अण्डकोषे (घण्ठा- पारुस) २ मोक्षकवृक्षे ३ संहृते च मेदि० ४ तस्करे, ५ मांसव्ये च हेमच० । स्वार्थे क । तत्रैव ।
शब्दकल्पद्रुमः
मुष्कः || पुं, (मुष्णाति वीर्य्यमिति । मुष् + “सृवृ भूशुषिमुषिभ्यः कक् । उणा० ३ । ४१ । इति कक् ।)
अण्डकोषः । इत्यमरः । २ । ६ । ६ ॥ (यथा, वाग्भटे निदानस्थाने नवमे अध्याये ॥ “स्थानाच्च्युतममुक्तं हि मुष्कयोरन्तरेऽनिलः ॥”)
मोक्षकवृक्षः । संघातः । इति मेदिनी । के, ३१ ॥ तस्करः । मांसलः । इति हेमचन्द्रः । २ । २७६ ॥