वाचस्पत्यम्
मुष्टिन्धय || पु० मुष्टिं धयति धे—खच् मुम् च । बालके त्रिका० ।
शब्दकल्पद्रुमः
मुष्टिन्धयः || पुं, (मुष्टिं धयति पिबति । धेट् + “नाडीमुष्ट्योश्च ।” ३ । २ । ३० । इति खश् । “अरुर्द्बिषदजन्तस्य मुम् ।” ६ । ३ । ६७ । इति मुम् ।)
बालकः । इति त्रिकाण्डशेषः ॥