वाचस्पत्यम्
मूत्राघात || पु० मूत्रमाहन्ति आ + हन—अण् । मूत्रहनन- कारिणि रोगभेदे । “प्रायो मूत्रविघाताद्यैर्वातकुण्ड- लिकादयः । जायन्ते कुपितैर्दोषै मूत्राघातास्त्रयोदश” भावप्र० ।
शब्दकल्पद्रुमः
मूत्राघातः || पुं, (मूत्रस्याघातो निरोधो येन ।)
प्रस्रावरोधकरोगविशेषः । अथ मूत्राघातस्य विप्रकृष्ट सन्निकृष्टञ्च निदानं संख्याञ्चाह । “प्रायोमूत्रविघाताद्यैर्व्वातकुण्डलिकादयः । जायन्ते कुपितैर्दोषैर्मूत्राघातास्त्रयोदश ॥” मूत्रविघाताद्यैरित्याद्यशब्देन पुरीषशुक्रादिवेग- विघातानां रूक्षाशनादीनाञ्च ग्रहणम् । मूत्र- विघाताद्यैः कुपितैर्दोषैरित्यन्वयः । ननु मूत्र- कृच्छ्रमूत्राघातयोः को भेदः । उच्यते । मूत्र- कृच्छ्रे कृच्छ्रमधिकं विबन्धोऽल्पः । मूत्राघाते तु विबन्धो बलवान् कृच्छ्रमल्पं इत्यनयोर्भेदः ॥ * ॥
वातकुण्डलिकाया निदानं संप्राप्तिं लक्षण- ञ्चाह । “रौक्ष्याद्वेगविघाताद्बा वायुर्व्वस्तौ सवेदनः । मूत्रमाविश्य चरति विगुणः कुण्डलीकृतः ॥ मूत्रमल्पाल्पमथवा सरुजं संप्रवर्त्तते । वातकुण्डलिकां तान्तु व्याधिं विद्यात् सुदा- रुणम् ॥” रौक्ष्यात् कायस्य । वेगविघातात् मूत्रादि- वेगनिरोधात् आविश्य प्रावृत्य रौक्ष्यादिभि- र्वेगविघातादिभिश्च विगुणो दुष्टः कुण्डलीकृतो वायुर्वस्तौ मूत्राशये चरति प्रतिधावति आबद्धत्वाद्भ्रमंस्तिष्ठति इत्यर्थः । वात्यावत् । मूत्रमिति तस्मान्मूत्रमल्पमल्पं सव्यथं प्रवर्त्तते । तद्ब्याधिं वातकुण्डलिकामाहुः । सुदारुणम् । मारणात्मकत्वात् ॥ १ ॥ * ॥
अष्ठीलामाह । “आध्मापयन् वस्तिगुदं रुद्ध्वा वातश्चलोन्नताम् । कुर्य्यात्तीव्रार्त्तिमष्ठीलां मूत्रविण्मार्गरोधिनीम् ॥” वातः वस्तिगुदं रुद्ध्वा अर्थात् तदन्तर्गतं मूत्रं मलञ्च निरुध्य वस्तिगुदं वस्तिं गुदञ्च आध्मा- पयन् आध्मानं कुर्व्वन् अष्ठीलां ष्ठीलातुल्यां व्याधिं कुर्य्यात् । चलोन्नतां चलां उन्नताञ्च ॥ २ ॥ वातवस्तिमाह । “वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः । निरुणद्धि मुखं तस्य वस्तेर्वस्तिगतोऽनिलः ॥ मूत्रसङ्गो भवेत्तेन वस्तिकुक्षिनिपीडितः । वातवस्तिः स विज्ञेयो व्याधिः कष्टप्रसाधनः ॥” अकुशलो मूर्खः । तस्य पुरुषस्य वस्तिमुखं निरुणद्धि वस्तिगतो वायुः । तेन वायुना मूत्रसङ्गो मूत्रविघातो भवति वस्तिकुक्षिनिपी- डित इति वस्तौ कुक्षौ च निपीडितः संपी- डितो वायुरिति सम्बन्धः ॥ ३ ॥ मूत्रातीतमाह । “चिरं धारयते मूत्रं त्वरया न प्रवर्त्तते । मेहमानस्य मन्दं वा मूत्रातीतः स उच्यते ॥” मेहमानस्य मूत्रमुत्सृजतः । मन्दं वा अल्पं वा ॥ ४ ॥ * ॥
मूत्रजठरमाह । “मूत्रस्य वेगेऽभिहते तदुदावर्त्तहेतुकः । अपानः कुपितो वायुरुदरं पूरयेद्भृशम् ॥ नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनाम् । तं मूत्रजठरं विद्यादधोवस्तिनिरोधनम् ॥” तदुदावर्त्तहेतुक इति मूत्रवेगधारणगणितो- दावर्त्तनिदानमाध्मानं कुर्य्यात् । अधोवस्ति- निरोधनं वस्तेरधोदेशे विबन्धकारकम् ॥ ५ ॥ मूत्रोत्सङ्गमाह । “वस्तौ वाप्यथवा नाले मणौ वा यस्य देहिनः । मूत्रं प्रवृत्तं सज्येत सरक्तं वा प्रवाहतः ॥ स्रवेच्छनैरल्पमल्पं सरुजं वाथ नीरुजम् । विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः ॥ नाले मेढ्रे मणौ मेहनाग्रग्रन्थौ सज्येत निरुद्धं स्यात् सरक्तं सत् वा प्रवर्त्तते । प्रवाहत इति कण्ठहृद्बलेन सशब्दं मूत्रपुरीषवातानामधः प्रेरणं प्रवाहनं तेन कुपितेन वायुना वस्त्यादि- भेदात् सरक्तं मूत्रं स्रवेदित्यर्थः ॥ ६ ॥ मूत्रक्षय- माह । “रूक्षस्य क्लान्तदेहस्य वस्तिस्थौ पित्तमारुतौ । मूत्रक्षयं सरुग्दाहं जनयेतां तदाह्वयम् ॥” क्लान्तदेहस्य म्लानदेहस्य तदाह्वयं मूत्रक्षय- संज्ञम् ॥ ७ ॥ मूत्रग्रन्थिमाह । “अन्तर्व्वस्तिमुखे वृत्तः स्थिरोऽल्पः सहसा भवेत् । अश्मरीतुल्यरुग्ग्रन्थिर्मूत्रग्रन्थिः स उच्यते ॥” अन्तर्व्वस्तिसुखे वस्तिमुखस्याभ्यन्तरे अल्पः क्षुद्रामलकप्रमाणः । नन्वस्य अश्मर्य्या सह को भेदः । उचय्ते । अश्मरी क्रमशः सञ्चयेन स्यादयन्तु सहसा भवेदिति भेदः । अपरो भेदः । अश्मर्य्यां पित्तादिकं संहन्यते अत्र तु रक्तमेव । यत उक्तं तन्त्रान्तरे । “रक्तं वातकफाद्दुष्टं वस्तिद्वारे सुदारुणम् । ग्रन्थिं कुर्य्यात् स कृच्छ्रेण सृजेन्मूत्रं तदा- वृतम् ॥” ८ ॥ इति ॥ मूत्रशुक्रमाह । “मूत्रितस्य स्त्रियं यातो वायुना शुक्रमुद्गतम् । स्थानच्युतं मूत्रयतः प्राक् पश्चाद्बा प्रवर्त्तते । भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते ॥” मूत्रितस्य मूत्रवेगयुक्तस्य शुक्रं स्थानात् च्युतं पश्चाद्वायुना उद्गतं ऊर्द्ध्वं नीतम् । भस्मोदक- प्रतीकाशं भस्मसहितजलसदृशम् । ९ ॥ उष्ण- वातमाह । “व्यायामाध्वातपैः पित्तं वस्तिं प्राप्यानिला- वृतम् । वस्तिं मेढ्रं गुदञ्चैव प्रदहत् स्रावयेदधः ॥ मूत्रं हारिद्रमथवा सरक्तं रक्तमेव वा । कृच्छ्रं पुनः पुनर्जन्तोरुष्णवातं वदन्ति तम् ॥” व्यायामादिविरोधत्वेन सौम्यधातुक्षयात् तेजो- वृद्ध्या पित्तवृद्धिः स्यात्तत्कुपितं पित्तं असंयुतं वस्तिं प्राप्य वस्त्यादिकं प्रदहत् मूत्रमधः स्रावयेत् । कीदृशं हारिद्रं अथवा सरक्तं ईषल्लोहितम् ॥ १० ॥ मूत्रसादमाह । “पित्तं कफो द्बावपि वा संहन्येतेऽनिलेन चेत् । कृच्छ्रान्मूत्रं तदा पीतं रक्तं श्वेतं घनं सृजेत् ॥ सरक्तं रोचनाशङ्खचूर्णवर्णं भवेत्ततः । शुष्कं समस्तवर्णं वा मूत्रसादं वदन्ति हि ॥” संहन्येते घनीक्रियेते । शुष्कं अल्पं समस्तवर्णं उक्तसकलवर्णयुक्तम् ॥ ११ ॥ विड्विघातमाह । “रूक्षदुर्ब्बलयोर्घातेनोदावृत्तं शकृद् यदा । मूत्रस्रोतोऽनुपद्येत विट्संसृष्टं तदा नरः ॥ विड्गन्धं मूत्रयेत् कृच्छ्राद्बिड्विघातं तमा- दिशेत् ॥” उदावृत्तं ऊर्द्ध्वं नीतं विड्गन्धं वा । वाशब्दो- ऽत्र योजनीयः ॥ १२ ॥ * ॥
वस्तिकुण्डलमाह । “द्रुताध्वलङ्घनायासैरभिघातात् प्रपीडनात् । स्वस्थानाद्वस्तिरुद्वृत्तः स्थूलस्तिष्ठति गर्भवत् ॥ शूलस्यन्दनदाहार्त्तो बिन्दुबिन्दु स्रवत्यपि । पीडितस्तु सृजेद्धारां संस्तम्भोद्वेष्टनार्त्तिमान् ॥ वस्तिकुण्डलमाहुस्तं घोरं शस्त्रविषोपमम् । पवनप्रबलं प्रायो दुर्निरोधमबुद्धिभिः ॥ तस्मिन् पित्तान्विते दाहः शूलं मूत्रविवर्णता । श्लेष्मणा गौरवं शोथो मूत्रं स्निग्धं घनं सितम् ॥” द्रुताध्वलङ्घनं शीघ्रं मार्गचलनम् । उद्वृत्तः उत्थितः । स्यन्दनं किञ्चिच्चलनम् । घोरं मारकम् । शस्त्रविषोपमं शस्त्रं खडगादि तद्बच्छीघ्रमारकम् । विषमत्र गरः तद्वत् विलम्बमारकम् । एतावता मारकमवश्यं शीघ्रं विलम्बेन वा ॥ १३ ॥ * ॥
तस्यैवासाध्यस्य च लक्षणमाह । “श्लेष्मरुद्धविलो वस्तिः पित्तोदीर्णो न सिध्यति । अविभ्रान्तविलः साध्यो न च यः कुण्डलीकृतः ॥ स्याद्वस्तौ कुण्डलीभूते तृण्मोहः श्वास एव च ॥” विलं वस्तिमुखरन्ध्रं पित्तोदीर्णः पित्तेनोद्धतः । अविभ्रान्तविलः कफेनावृतविलः पश्चात् कुण्डली- कृतः स साध्यः । एतेन कुण्डलीभूतोऽसाध्यः । कुण्डलीभूतस्य लक्षणमाह । तृडित्यादि- कुण्डलीभूतस्यायमर्थः । कफेन विलावरोधा- त्तत्र वातः कुण्डलाकारेण तिष्ठतीत्यर्थः ॥ * ॥
अथ मूत्राघातस्य चिकित्सा । “नलकुशकाशेक्षुबलाक्वाथं प्रातः सुशीतलं ससितम् । पिबतो नश्यति नियतं मूत्रग्रह इत्युवाच कविः ॥” कविः शुक्रः । “कर्पूररजसा युक्ता वस्त्रवर्त्तिः शनैः शनैः । मेढ्रमार्गान्तरे न्यस्ता मूत्राघातं व्यपोहति ॥ धान्यगोक्षुरकः क्वाथः कल्कसिद्धं हितं घृतम् । मूत्राघाते मूत्रकृच्छ्रे शुक्रदोषे च दारुणे ॥” धान्यगोक्षुरकं घृतम् । “मूत्रकृच्छ्रेऽश्मरीरोगे भेषजं यत् प्रकीर्त्तितम् । मूत्राघातेषु सर्व्वेषु तत् कुर्य्याद्देशकालवित् ॥” इति मूत्राघाताधिकारः । इति भावप्रकाशः ॥ गरुडपुराणोक्तनिदानं तस्य १६३ अध्याये द्रष्टव्यम् ॥ (तथास्य विषयः । “वस्तिवस्तिशिरोमेढ्रकटीवृषणपायवः । एकसम्बन्धनाः प्रोक्ता गुदास्थिविवराश्रयाः ॥ अधोमुखोऽपि वस्तिर्हि मूत्रवाहिसिरामुखैः । पार्श्वेभ्यः पूर्य्यते सूक्ष्मैः स्यन्दमानैरनारतम् ॥ यैस्तैरेव प्रविश्यैनं दोषाः कुर्व्वन्ति विंशतिम् । मूत्राघातान् प्रमेहांश्च कृच्छ्रान्मर्म्मसमाश्रयान् ॥” इति वाग्भटे निदानस्थाने नवमेऽध्याये ॥ अथास्य पथ्यापथ्यानि । “अभ्यञ्जनस्नेहविरेकवस्ति- स्वेदावगाहोत्तरवस्तयश्च । पुरातना लोहितशालयश्च मांसानि धन्वप्रभवानि मद्यम् ॥ तक्रं पयोदध्यपि माषयूषः पुराणकुष्माण्डफलं पटोलम् । महार्द्रकं तालफलास्थिमज्जा हरीतकीकोमलनारिकेलम् ॥ गुवाकखर्ज्जूरकनारिकेल- तालद्रुमाणामपि मस्तकानि । यथामलं सर्व्वमिदञ्च मूत्रा- घातातुराणां हितमावहन्ति ॥ विरुद्धानि च सर्व्वाणि व्यायामं मार्गशीलनम् । रूक्षं विदाहिविष्टम्भिव्यायामं वेगधारणम् । करीरं वमनञ्चापि मूत्राघाती विवर्ज्जयेत् ॥” इति वैद्यकपथ्यापथ्यविधिग्रन्थे मूत्राघाताधि- कारे ॥)