संस्कृत-शब्दकोशः

मूलकारिका मूलज

मूलकृच्छ

वाचस्पत्यम्

मूलकृच्छ ||‍ पु० मूलेन क्वाथितवृक्षमूलेन कृच्छ्रः । “मूलकृच्छ्रः स्मृतो मूलैरिति” स्मृत्युक्ते १ व्रतभेदे । तद् यस्य । २ तद्वति त्रि० ।


शब्दकल्पद्रुमः

मूलकृच्छं || क्ली (मूलेन तद्रमपानेन कृच्छ्रम् ।)
एकादशविधपर्णकृच्छ्रव्रतान्तर्गतव्रतविशेषः । यदा क्वथितानि वृक्षमूलानि मासं पीयन्ते तदा मूलकृच्छ्रव्यपदेशं लभते । यथाह मार्कण्डेयः । “फलैर्मासेन कथितः फलकृच्छ्रो मनीषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माक्षैरपरस्तथा ॥ मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥ मूलकृच्छ्रः स्मृतो मूलैस्तोयकृच्छ्रो जलेन तु ॥” इति मिताक्षरायां प्रायश्चित्ताध्यायः ॥ (पुंलिङ्गोऽप्ययं मार्कण्डेयपुराणोक्तत्वात् ।)



Correction: