वाचस्पत्यम्
मूलिन् || पु० मूलमस्त्यस्य इनि । वृक्षे शब्दच० । ठन् । मूलिकोऽप्यत्र ।
शब्दकल्पद्रुमः
मूली || [न्] पुं, (मूलमस्यास्तीति । मूल + इनिः ।)
वृक्षः । इति शब्दचन्दिका ॥ (स्त्रियां ङीप् । ओषधिः । यथा, सुश्रुते चिकित्सितस्थाने ३० अध्याये । “चक्रकामोषधिं विद्याज्जरामृत्युनिवारिणीम् । मूलिनीपञ्चभिः पत्रैः सुरक्तांशुककोमलैः ॥”)