संस्कृत-शब्दकोशः

मृगतृष् मृगतृष्णिका

मृगतृष्णा

वाचस्पत्यम्

मृगतृष्णा ||‍ स्त्री मृगाणां तृष्णेव तृष्णाहेतुत्वात् । सूर्य्यकिरणे जलभ्रान्तौ अमरः । निर्जलदेशस्थं सूर्य्यकिरणं दूरता वीक्ष्य मृगैर्जलभ्रान्त्या तृष्णार्त्तैः सद्भिः बम्भ्रम्यते न च लभ्यते इति ग्रीष्मे मरुदेशे सिकतादौ पतितरविकिणेषु जलभ्रान्तिरिति च लोकप्रसिद्धम् । स्वार्थे क । तत्रैव ।


शब्दकल्पद्रुमः

मृगतृष्णा || स्त्री जलाभासत्वात् मृगाणां तृष्णा विद्यतेऽस्याम् । ग्रीष्मे मरुदेशे सिकतादावर्क- कराः प्रतिफलिताः दूरस्थानां जलत्वेनाभान्ति तद्बाचिका । इति टीकाकारः ॥ उत्कटरवि- रश्मिजन्यक्षितिवास्पजालं मरीचिका । दूर- शून्ये यन्मयूखैर्जलमिव दृश्यते इत्यपरे । इति भरतः ॥ तत्पर्य्यायः । मरीचिका २ । इत्य- मरः । १ । ४ । ३५ ॥ मृगतृष्णिका ३ । इति भरतः ॥ मृगतृट् ४ मृगतृषा ५ । इति शब्द- रत्नावली ॥



Correction: