संस्कृत-शब्दकोशः

मृगबधाजीव मृगभक्षा

मृगबन्धनी

वाचस्पत्यम्

मृगबन्धनी ||‍ स्त्री मृगोबध्यतेऽनया बन्ध—करणे ल्युट् ङीप् । मृगबन्धनार्थे जाले अमरः । करणस्य कर्त्तृत्वविवक्षायां णिनि ङीप् । मृगवन्धिनीत्यप्यत्र अमरे पाठान्तरम ।


शब्दकल्पद्रुमः

मृगबन्धनी || स्त्री (मृगः बध्यते अनयेति । बन्ध + ल्युट् + स्त्रियां ङीष् ।)
मृगबन्धनार्थजालम् । तत्पर्य्यायः । वागुरा २ । इत्यमरः । २ । १० । २६ ॥



Correction: