संस्कृत-शब्दकोशः

मृगेक्षणा मृगेन्द्रचटक

मृगेन्द्र

वाचस्पत्यम्

मृगेन्द्र ||‍ पु स्त्री० मृगः इन्द्र इव । सिंहे अमरः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

मृगेन्द्रः || पुं, (मृगाणामिन्द्रः श्रेष्ठः ।)
सिंहः । इत्यमरः । २ । ५ । १ ॥ (यथा, श्रीमद्भागवते । १ । १२ । २२ । “मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥” भगवद् विभूतिः । यथा, श्रीमद्भगवद्गीतायाम् । १० । ३० । “मृगाणाञ्च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ॥” छन्दोविशेषश्च ॥)



Correction: