वाचस्पत्यम्
मृगेन्द्राशी || स्त्री मृगेन्द्रेण सिंहेनाश्यते भक्ष्यते अश—कर्मणि घञर्थे क गौरा० ङीष् । वासके राजनि० ।
शब्दकल्पद्रुमः
मृगेन्द्राशी || स्त्री (मृगेन्द्रेण अश्यते इति । अश् + घञ् + गौरादित्वात् ङीष् ।)
वासकः । इति राजनिर्घण्टः ॥ (विशेषोऽस्या वासकशब्दे ज्ञातव्यः ॥)