संस्कृत-शब्दकोशः

मृग्य मृजा

मृज

वाचस्पत्यम्

मृज ||‍ शोधने भूषणे च वा चु० उभ० पक्षे अदा० सक० वेट् । मार्जयति—ते मार्ष्टि अमीमृजत्—त अममार्जत्—त अमा- र्क्षीत् आम्राक्षीत् अमृक्षत् षित् मृजा ।


शब्दकल्पद्रुमः

मृज || ऊ ष कि भूषे । शुद्धौ । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।)
ऊ अमार्जीत् अमार्क्षीत् । ष मृजा । कि मार्जत्या- लेपनैर्द्विजान् । यो मार्ज्जयति शास्त्रार्थमिति हलाषुधः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

मृजः || पुं, (मृज्यतेऽसौ । इति मृज् + कृत्यल्युटो बहुलमिति कर्म्मणि कः ।)
वाद्यविशेषः । मादल इति भाषा । यथा । मर्दलो दारुजो मृजः । इति शब्दरत्नावली ॥


शब्दकल्पद्रुमः

मृज || ल ऊ ष शुद्धौ । इति कविकल्पद्रुमः ॥ (अदा०-पर०-सक०-सेट् ।)
शुद्धिरिह शुद्धी- भावः शुद्धीकरणञ्च । ल मार्ष्टि तीर्थोदकैर्नित्य- मिति हलायुधः । ऊ अमार्ज्जीत् भस्मतो मलम् । अमार्क्षीच्चासि पत्रादीनिति भट्टिः । ष मृजा । इति दुर्गादासः ॥



Correction: