वाचस्पत्यम्
मृदङ्गफलिनी || स्त्री मृदङ्ग इव फलमस्त्यस्या इनि ङीप् । कोषातक्याम् राजनि० । तत्फलं साम्यादस्त्यस्य अच् । मृदङ्गतुल्यफले पनसवृक्षे पु० शब्दर० ।
शब्दकल्पद्रुमः
मृदङ्गफलिनी || स्त्री (मृदङ्गवत् फलमस्त्यस्याः । इनिः ङीप् च ।)
कोषातकी । इति राजनिर्घण्टः ॥ (विषयोऽस्याः कोषातकीशब्दे ज्ञेयः ॥)