मृदुपत्री
मृदुपुष्प
मृदुपर्वक
वाचस्पत्यम्
मृदुपर्वक || पु० मृदूनि पर्वाण्यस्य कप् । १ वेत्रे राजनि० । २ मृदुग्रन्धियुक्ते त्रि० ।
शब्दकल्पद्रुमः
मृदुपर्व्वकः || पुं, (मृदूनि पर्व्वाण्यस्य कप् ।)
वेत्रः । इति राजनिर्घण्टः ॥ कोमलपर्व्वविशिष्टे, त्रि ॥